________________
Shri Mahavir Jain Aradhana Kendra
॥ ६७ ॥
++*****
www.khatirth.org
रामं रामं जिनमतमहाम्भोधिपारं प्रयातं, सूरिं वन्देऽजितजलनिधिं निर्मलाऽऽत्मप्रबोधम् ॥ १ ॥ ध्यायं ध्यायं मुनिगुणगणं शुद्धतच्चप्रकाशं, गेयं गेयं विपुलसुखदं शुद्ध सिद्धान्ततत्वम् । हेयं यं विषममतिदं कुत्सितानां प्रवाद, सूरिं वन्देऽजित जलनिधिं निर्मलाऽऽत्मप्रबोधम् ॥ २ ॥ पेयं पेयं गुरुगुणमयीं वाचनां पावयित्री, स्मारं स्मारं जिनपदयुगं स्वर्गमोचैकहेतुम् । कारं कारं विमलहृदयं प्रेमपीयूषपूर्ण सूरिं वन्देऽजित जलनिधिं निर्मलाऽऽत्मप्रबोधम् ॥ ३ ॥ नामं नामं परमशिवदं सद्गुरोः पादपद्मं, लाभ लाभं गुरुतरगुणं तत्वबोषं प्रकाशम् । ग्राहं ग्राहं भवजलनिधेस्तारणीं चित्तशुद्धिं सूरिं वन्देऽजितजलनिधिं निर्मलाऽऽत्मप्रबोधम् ॥ ४ ॥ वामं वामं विषयविरसं ज्ञानतश्चप्रवीणं, श्रामं श्रामं भवगमनतो लब्धदीव्यप्रदेशम् ।
चायं चायं व्यसनमनिशं श्रेष्ठचारित्ररत्नं, मूरिं वन्देऽजितजलनिधिं निर्मलाऽऽत्मप्रबोधम् ॥ ५ ॥ दाहं दाहं विषमभयदं कर्मवृन्दं जयन्तं, गाई गाईं कलिमलहरं जैनतस्वाम्बुराशिम् । साहं साहं परिषदचं स्वात्मरूपैकनिष्ठं, सूरिं वन्देऽजितजलनिधिं निर्मलात्मप्रबोधम् ॥ ६ ॥ भ्रमं भ्रामं भववनपथे भूरिमाग्यप्रभावाद्, धारं धारं जिनवर पदं तावकं मानसान्जे । वारं वारं शिवसुखगतं भव्यबोधप्रवीणं, सूरिं वन्देऽजित जलनिधिं निर्मलात्मप्रबोधम् ॥ ७ ॥ सारं सारं विशदमतितस्ताच्चिकं दर्शयन्तं पारं पारं भवजलनिधेर्देहिनः प्रापयन्तम् ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
#++13• →→**<- →→****************
॥ ९७ ॥