________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मनः पूर्णमोक्षार्थ, दयाऽस्ति साधनं शुभम् ; आत्मनः शुद्धरूपंहि, साध्यमस्तिदयावताम् ॥१५४।। एकेन्द्रियादिजीवानां, सहयाचोत्तरोत्तरा: अनन्तपुण्यलाभार्थ, धर्मार्थ देहिनां भवेत् ॥१५॥ एकेन्द्रियादिजीवेभ्यो, नृणां कोटिगुणोत्तमा दयाऽस्तिद्रव्यभावाभ्यां, तरतमयोगभेदतः ॥१०६॥ मनुष्येष्वपि मांसादि,-वर्जिनांचोत्तमादया तेभ्योऽपिज्ञानिसाधूना, महिंसारक्षणं च वै ॥१७॥ चतुर्विधमहासंघ,-रक्षातो धर्मरक्षणम् धर्मिणां रक्षणाद्धर्मों, रक्ष्यते सत्यनिश्चयः ।।१५८।। अहिंसकसुभक्तानां, त्यागिनांरक्षणशुभम् अनन्तपुण्यधर्मार्थ, जायते च विवेकिनाम् ।।१५९॥ पशुपक्षिमनुष्याणां, हिंसकेभ्योह्यहिंसकाः कोटिगुणोत्तमाः श्रेष्ठा, यथायोग्यं दयांकुरु ॥१६०॥ क्षेत्रकालादिकंज्ञात्वा, तरतमयोगतोदयां कुर्वन्ति ज्ञानिनो मुक्तये, सर्वत्र निजशक्तितः ॥१६१ ॥ दयाभवतिसगुड्या, हिंसाभवतिदुधिया; पापकार्येषु हिंसाऽस्ति, धर्मकार्येषुसद्दया ॥१६२॥ स्वल्पहिंसामहाधर्म,-कारकं परमार्थदम् अहिंसाधर्मवृड्यर्थ,-मपवादेन चागतम् ॥१६॥ संघधर्मादिरक्षार्थ, मावश्यकहि सर्वथा धर्म्ययुद्धादिकं कर्म, कर्तव्यं च विवेकतः ॥१६४॥ स्वस्वधर्मविवृड्यर्थ, सर्वैर्धर्माभिमानिभिः क्रियतेधर्मयुद्धंय, तन्मृषामोहचेष्टितम् ॥१६॥
For Private And Personal Use Only