________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णदयास्वरूपोऽस्ति, देवो हिंसानिवारक पशुपक्ष्यादिभोगान्स, नेच्छति नच याचते ॥१३०॥ यज्ञापशवोनैव, सृष्टा देवेन निश्चितम् देव्यः पशून् न खादन्ति, पिबन्ति अधिरं न च ॥१३१॥ पशुपक्ष्यादियज्ञेश्व, प्रसन्ना नैव देवताः पापोदयेन रोगाश्च, दुःखानि विश्वदेहिनाम् ॥१३२॥ पापोदयेन रोगादि-दुःखंभवतिदेहिनाम् पुण्योदयेन चारोग्य-सुखंभवतिनाऽन्यथा ॥१३३॥ पापादुःखं सुखं पुण्यात् , सर्वत्र सर्वदेहिनाम् ज्ञात्वा च पुण्यधर्माय, सद्दयांकुरुचेतन ! ॥१३४॥ मदिरामांसरक्तानां, द्वेषिणांव्यभिचारिणाम् पापडिभोगभुक्तानां, हृत्सुनास्ति च सद्दया ॥१३॥ हिंसाऽस्तिक्लेशयोगेन, परमर्मपकाशनात् अतिपरिग्रहोहिंसा, हिंसाऽस्ति रात्रिभोजने ॥१३६॥ अनर्थदण्डतोहिंसा, परहास्यादिकर्मतः । दयाऽस्तिदेहिनो दुःख,-विनाशकसुकर्मतः ॥१३७॥ येषां चित्तेषु कायेषु, वचस्सु सात्त्विकीदया स्वहिजोवतांतेषां, भावेन हि प्रजायते ॥१३८॥ स्वाऽधिकाराद्याशक्ति, द्रव्यभावयांकुरु तरतमदयायोगैः प्रवर्तस्व स्वमुक्तये ॥१३९॥ पापविज्ञायहिंसासु, हिंसाकर्माणि संत्यज !! सर्वयोगस्यसन्मूल, महिंसां हृदि धारय ॥१४०॥ कोऽपिदयांविना योगी, नवभूतो भविष्यति कोऽपिदयांविना मुक्तो, नैव भूतो भविष्यति ॥१४॥
For Private And Personal Use Only