________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૪
गीतार्थसद्गुरोराज्ञा, - धारकाः सर्वकर्मसु प्रत्याssख्यानोदयेनैव, गृहस्थाssवासवर्तिनः ॥७५१॥ देशतोविरतिंप्राप्य, त्यागधर्मानुरागिणः मन्यमाना गृहाssवासं, पाशवज्जैनधर्मिणः ॥७५२ ॥ ब्राह्मणाः क्षत्रियावैश्याः शूद्रा ये जैनधर्मिणः गुणकर्मत्रतायैस्ते, भवन्ति मुक्तिगामिनः ॥ ७५३॥
धर्मराज्यमहीवित्त-स्वकुटुम्बादिरक्षिणः
3
Acharya Shri Kailassagarsuri Gyanmandir
आत्मोपयोगयुक्तास्ते, मुक्ताः सन्तिगृहस्थिताः ॥७५४॥ धर्मयुद्धादिकर्माणि चावश्यकानिशक्तितः कुर्वन्तिगृहिणोजैना, देशविर तिधारिणः ॥७५५॥ देशविरतितोऽनन्त, - गुणश्रेष्ठाः सुसाधवः आत्मोपयोगिनः सन्तो, रत्नत्रयीप्रसाधकाः ॥७५६॥ मेरुवत्साधवोबोध्याः सर्षपवद्गृहस्थिताः गृहस्थैः साधवः पूज्या, वन्द्याश्वविधिपूर्वकम् ॥७५७|| संज्वलनकषायेण, युक्ताः पञ्चवतस्थिताः सरागसंयमव्यक्ताः प्रमादिनोऽप्रमादिनः ॥७५८ ॥ शस्यरागादिभिर्युक्ताः सम्प्रतिपञ्चमारके; श्रमण्यः साधवः सन्ति, सूरयोवाचकाः शुभाः ॥७५९ ॥ आत्मोपयोगयुक्तास्ते, सक्रियानिष्क्रियाश्चयेः सुखदुःखप्रसङ्गेषु, स्वाऽऽत्मनः शुद्धिकारकाः ॥ ७६० ॥ शुभाशुभविपाकानां भोक्तारोऽपि भोगिनः देहेऽवर्तमानास्ते, मोक्षानुभववेदिनः ॥७६१ ॥ ध्यानसमाधियोगेन, मुक्तिशर्माऽनुभूयते क्षयोपशमभावेन, मया प्राप्तः प्रभुर्महान् ॥ ७६२।।
For Private And Personal Use Only