________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૪૧
Acharya Shri Kailassagarsuri Gyanmandir
सम्यकश्रद्धानसम्यक्त्व - लाभात्पश्चात्प्रकाशते; अल्पकाले चिरंकाले, चारित्रं चाऽऽत्मनः स्फुटम् ॥ ४७५ ॥ स्वाऽऽत्मानंस्वं परिज्ञाय, शीघ्रमुत्तिष्ठजागृहि; स्वपर्यांयगुणानांत्व, माविभविकुरुतम् ॥४७६॥ आत्मनः पूर्णशुद्धिर्या, सैवसाध्या जिनोदिता साध्यलक्ष्योपयोगेन, स्वाऽऽत्मशुद्धिंकुरुतम् ॥४७७॥ साध्यलक्ष्यं हृदिध्यात्वा, कर्तव्यकार्यमाचर !!! आत्मोत्साहेन वर्तस्व प्रमादांश्चनिवारय ॥४७८॥ प्रतिक्षणं परब्रह्म, शुद्धरूपंविचारय;
भूयाः शुद्धाऽऽत्ममग्नस्त्वं, विस्मृत्यमोह भावनाम् ॥ ४७९ ॥ निर्ममोभवसर्वत्र, दृश्याऽदृश् येषु वस्तुषुः
नाsहंकारीभव व्यक्त-, दृश्यादृश्येषु सर्वथा ||४८० ||
साक्षिभावेनसर्वत्र, वर्तस्वस्वोपयोगतः औपचारिककार्येषु, निर्लेपो भवबोधतः ॥४८१॥ मृत्युनानिर्भयीभूय - स्वाऽऽत्मनिनिर्भयचर; जातस्य वपुषोनाशः स्वयंत्वमविनाशवान् ||४८२|| जातानांहिविनाशोऽस्ति, तेषां शोकंनिवारय; आत्माऽसिसच्चिदानन्दः स्वस्वरूपंविचारय ॥ ४८३ || साधयस्वाssत्मनः शुद्धिं वारय मोहवासनाम् जनान् स्मारय सद्ब्रह्म- धारय स्वोपयोगिताम् ॥४८४|| जीव !! शुद्धोपयोगेन, म्रियस्व मोहभावतः विस्मर मोहभावास्त्व, मात्मरूपंच संस्मर - ||४८५ ॥ असंख्यमार्गा मोक्षस्य, सन्तिस्वाऽऽत्मोपयोगिनाम् : तेषामेकमपिप्राप्य - सिद्धाः सेत्स्यन्ति देहिनः ॥ ४८६ ॥
For Private And Personal Use Only