________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩૯
रोगादिजन्यदुःखेऽपि, ब्रह्मतत्त्वविचारिणाम् । आत्मोपयोगिनांनित्य-, मानन्दोल्लासआत्मनि ॥४५॥ उपयोगेनवेत्तारं-स्मारं स्मारं विचिन्तय; विस्मृत्यबाह्यभावं त्वं-, लीनोभवनिजाऽऽत्मनि ।।४५२॥ दूरोकृत्यप्रमादास्त्वं-शुद्धाऽऽत्मानंस्मर द्रुतम्, एकमाऽऽत्माजगत्सारः सत्यंहृदिप्रधारय ॥४५३॥ सर्वसारस्थसारोऽय-, माऽत्मातत्त्वमसि स्वयम् सोऽहंप्रज्ञानमाऽऽत्माऽस्मि, कालस्य कालजित्वहम् ॥४५४॥ वादाश्चप्रतिवादांश्च-कुर्वन्तः सर्वपण्डिताः आत्मसुखं न संयान्ति, शुद्धोपयोगमन्तरा ॥४५५॥ दर्शनधर्मशास्त्राणां, मोहाल्लोकाः परस्परम् , युड्यन्तिकर्मबध्नन्ति, यान्तिजन्मपरम्पराम् ॥४५६॥ सर्वदर्शनधर्माणां, सारंसत्यंवदाम्यहम् । रागद्वेषक्षयः कार्यः कर्तव्यास्वाऽऽत्मशुद्धता ॥४५७।। सर्वयोगादिसारोऽस्ति-संसाध्यावीतरागता; आत्मोपयोगतासाध्ये, त्येवंब्रुवन्ति पण्डिताः॥४५८॥ मनोवाकायपावित्र्या-दात्मनः पूर्णशुद्धता; कर्तव्यासासतांप्राप्या-, सत्यमेवंवदाम्यहम् ॥४५९।। आर्याः स्युः सद्गुणैः सर्वे, सदाचारैर्भुवस्तले; मनोवाकायशुयाये-, स्वाऽऽत्मशुद्धिविधायिनः॥४६०॥ आत्मशुद्धिविनादेव-देवोभिर्भक्तदेहिनाम् मुक्प्रिदीयतेनैव, स्वाऽऽत्मनानिजमुद्धरेत् ॥४६१॥ जायतेनकदामुक्ति, राविर्भूतगुणैर्विना: ईश्वरेणाऽपिनोदेया, सत्यमेतद्विचारय ॥४६२॥
For Private And Personal Use Only