________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वाऽन्यप्रकाशकं ज्ञानं, प्रत्यक्षवेद्यते हृदि ॥ . तद्विज्ञानमयःस्वाऽऽत्मा, स्वेनाऽनुभूयते स्वयम्॥१७८॥ नयभङ्गप्रमाणैश्च, यदाऽऽत्मा ज्ञायते हाद । तदाप्रकाशतेज्ञानं, सम्यछुडानपूर्वकम् ॥१७९॥ सर्वधर्मादशास्त्राणां, नयैः सापेक्षवेदिनाम् सम्यग्दृष्टिमनुष्याणां, ज्ञानसम्यक्तयाभवेद् ॥१८०॥ सम्यगदृष्टिजुषां सर्व,-मिथ्याशास्त्रमपिस्वतः सम्यज्ज्ञानतयाभाति, सम्यग्दृाष्ट्रप्रतापतः ॥१८॥ मिथ्यादृष्टिजुषांसम्य-छास्त्रं तापमोहतः मिथ्यारूपतयाभाति, मथ्याहाष्टप्रतापतः ॥१८२॥ देहादिवासनां मिथ्या, शास्त्रादिमोहवासनाम् त्यजन्ति ज्ञानिनश्चैवं, दर्शनमोहवासनाम् ॥१८३॥ सात्विकज्ञानचारित्र-गुणेभ्य आत्मसद्गुणाः भिन्ना आत्मविशुद्ध्यर्थ-हेतुभृताश्चधर्मिणाम्॥१८४॥ ज्ञानदर्शनचारित्र-वीर्याचा आत्मसद्गुणाः भक्तिदानदयाघाये, ज्ञातव्याः सात्त्विका गुणाः॥१८५॥ सात्त्विकाचारधर्मेषु, सात्त्विकसद्गुणेष्वपि आत्मबुद्धिन संदध्याज, ज्ञानी शुद्धोपयोगवान्॥१८६॥ सत्त्वरजस्तमोवृत्त्या, भिन्न आत्माऽस्तिवस्तुतः ज्ञात्वैवमाऽऽत्मनः शुद्धिं, कुर्वन्ति छुपयोगिनः॥१८७॥ गीतार्थगुरुनिये, कृत्वाब्रह्मोपयोगिनः स्वाधिकारेण वर्तन्ते, तेस्युर्मुक्ताः स्वभावतः ॥१८८॥ स्वाऽऽत्मायत्तं मनः कृत्वा, शुद्धाऽऽत्मानं स्मर स्वयम् । आत्मन्येव स्थिरीभूय, शुद्धब्रह्म भविष्यसि ॥१८९॥
For Private And Personal Use Only