________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૨૫ शुभाशुभं कर्म तथा विदित्वा, धर्मक्रियां ज्ञानिजनः करोति । नराः स्त्रियो ज्ञानिन उत्तमाश्च, निजाऽऽत्मधर्म प्रविकाशयन्ति ॥ १२० ॥ स्वपापकर्मत्यजनाय हेतुवैराग्यमस्त्येव च राजनीतिः। धर्मस्य रक्षाभिरुदेति धर्मः स्याडर्मिजीवस्य सुखं च शान्तिः ॥ १२१ ॥ अतः स्वधर्मस्य कुरुष्व रक्षामेतत्तु कर्तव्यमहोऽस्ति राज्ञः । यथा यथाज्ञानमुदिते चित्ते, बाह्या स्ततोऽल्पा नियमा भवन्ति ॥ ११२॥ प्रवर्तते चाऽऽत्मनि मानसंस्, बाह्यास्तु शेषा नियमा भवन्ति । सर्वस्य वर्णस्य च शिक्षणार्थ, सङ्केतितं राजपदं पृथिव्याम् ॥ १२३ ॥ त्वं लक्षयित्वा च निजाऽत्मशुडिं, प्रेम्णा प्रजा रक्ष नरेन्द्र ! ! नीत्या । निशाम्य च श्रेणिकराजराजो, धन्यं स्वमात्मानममानयत्सः ॥ १२४ ॥ प्रदक्षिणातः प्रणमन्प्रभुं च, रोमाञ्चपूर्णः प्रबभूव भूपः। धन्यो महावीर जिनेश्वरस्त्वं, सत्योऽस्त्ययं नाम तवोपदेशः ॥ १२५ ॥
For Private And Personal Use Only