________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૨૧ मोहादनीति न कदापि कुर्या-, स्त्वं दुःखिनां भूप ! सहायकः स्याः । कुरु क्रियां सत्यपराक्रमेण, द्रव्येण भावेन कुरुष्व राज्यम् ॥९३ ॥ समाननीतेःसकले मनुष्ये, प्रधानतो भाति च जैनराज्यम् । जहीहि देहादिकमत्र लोके, देवाय धर्माय तथा गुरुभ्यः ॥ ९७ ॥ जीवन्ति यस्मात्परमार्थवर्गाधर्माय तस्मै कुछ धर्म्ययुद्धम् । यत्राऽल्पदोषोऽस्ति महाँश्च धर्मोगुणज्ञ तत्कर्म कुरु त्वमेवम् ॥ ९८॥ धर्माय सर्व कुरु भूप ! कार्य, सहायतां धर्मिजनाय देहि । व्यवस्थया त्वं कुरु भूप ! राज्यं, नेामयोग्यां कुरु कुत्रचित्त्वम् ॥ ९९ ॥ सत्यं दयाभावमथो विधेहि, चोराञ्जनाँश्चापनयाऽतिदरम् । निवारय त्वं व्यभिचारमाशु, प्रचारय त्वं सुगुणान्प्रजासु ॥१०० ॥ विभाति राज्यं दयया च सत्यैः, साम्राज्यमावि भवति प्रमाणात् । सर्वप्रजासौख्यकृतेऽस्ति राज्यं, राज्यादि कार्य च तदर्थमेव ॥ १०१ ॥
For Private And Personal Use Only