________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૧૭
यत्कालतः स्याच्चनिजाऽऽत्मबोध, आत्मोपयोगोऽपि ततो हि कालात् ।
विनाशयेत्कर्मफलं ततो हि, स्यादल्पबन्धो बहुनिर्जराश्च ॥ ७२ ॥ ततो हि काला बहुनिर्जराः स्युः, स्यात्कर्मबन्धः परमल्प एव । सर्वा हि कर्मप्रकृतिः प्रयाति, पूर्णा भवेत्तत्र निजात्मशुद्धिः ॥ ७३ ॥ यत्कालतः स्याच्चनिजाऽऽत्मबोध
स्तत्कालतश्चाऽऽत्मरसस्य पानम् । ज्ञाने च भक्तौ मन आशु मत्तं, भवेत्तनौ सत्यपि मुक्तिसौख्यम् ॥ ७४ ॥ देवोऽस्यामात्साय तनुमंदिरे च, सेवस्व तं तीर्थशिरोमणिं त्वम् ।
कुरुष्व हे श्रेणिक कर्म सर्व,
स्याः किन्तु निष्काम इतोऽन्तरे त्वम् ॥ ७५ ॥ कौलेयको लेढि यथास्थिखण्डं, मनोऽपि तद्वद्विषयाँश्च लेढि ।
मिलेन रक्तं च यथाऽस्थिलेहे, भोगे तथाsसक्तिकरोऽस्ति जीवः ॥ ७६ ॥ पशोर्बलं विद्धि च कामचेष्टां, ततः सदाक्लेशपरम्पराऽस्ति, जीवा भ्रमन्त्येव च काममुग्धादुःखस्य नान्तं मनुजा लभन्ते ॥ ७७ ॥
For Private And Personal Use Only