________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૧૩
पुण्यात्सुखं दुःखमथोऽस्ति पापाते पुण्यपापे सह चेतसा स्तः । भिन्नं ततश्चाऽऽत्मिकसौख्यमस्ति, तस्मिन्भव श्रेणिकराज लीनः ॥ ४८ ॥ पञ्चेन्द्रियाणां च यतोऽस्ति भोगः, स्वज्ञानिनां तत्र भवेदभोगः । जीवेष्वनासक्तितएव भोगाद्, भवेद्वन्धो नच लिप्त आत्मा ॥ ४९ ॥ चेन्मृत्तिका खादति पंचवर्णी,तथापि शखो धवलो हि दृष्टः । कर्मोदयौगचयं च भुञ्जन् , ज्ञानी स्वयं वर्तत आत्मयोगात् ॥ ५० ॥ स्यात्कर्मणां नाशनमाऽऽत्मबोधाज्जडा जडत्वैः परिणामवन्तः । आत्मस्वभावेन भवेनिजाऽत्मा, कदाचिदासक्तिमृते न बन्धः॥ ५१ ॥ जलेषु यद्वत्तरकास्तरन्ति, भोगोदधौ ज्ञानिजनास्तरन्ति । स्थात्पूर्वकर्मोदयतश्चभोगस्ततो मिलेतादृश एव योगः ॥५२॥ . व्यापारतश्चैव यथा विषाणां, लोका म्रियन्ते न तथा च विद्वान् । भोगाँश्च भुञ्चन्नपि लेपशून्यः कदाचिदासक्तिमृते न बन्धः ॥ ५३॥
For Private And Personal Use Only