________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रेणिकसुबोधग्रन्थः
सर्वज्ञ हेबीर सदा जय त्वं, धीरः परेशो जगदीश्वरोऽसि। गुणास्त्वदीया भगवन्नपारा, कृत्वा कृपां तारय मां दयालो ॥१॥ सत्योपदेशं कुरु नाथ मह्य, विनिश्चयाद्वा व्यवहारनीतेः। श्रीश्रेणिको भारतदेशराजोऽहंप्रार्थये नाथ निजाऽऽत्मराज्यम् ॥२॥ त्वय्यस्ति विश्वास उदारको मे, प्रकाशय त्वं खलु सर्वसत्यम् । न त्वत्समः कोऽपि जगत्सु देवस्त्वद्भक्तिसेवाग्नुकामयेऽहम् ॥ ३ ॥ निशामय श्रेणिक सत्यभूप, त्वमाऽऽत्मरूपं ननु विद्धि विद्धि । आत्मावबोधाद्भवति स्वमुक्तिः, किश्चिद्भवेद्भूमिषु नापरोक्षम् ॥ ४ ॥ निजाऽऽत्मशक्तिः परमास्त्यपाराऽस्त्यनन्तसत्याश्रय एष आत्मा। जानाति यो ब्रह्म स वेत्ति सर्वे, गर्यो न दुःखं न भवेच्च तस्मात् ॥५॥
For Private And Personal Use Only