________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૮
श्लोकः जडात्मलक्षणोजीवः सर्वविद्भिः प्रकीर्तितः ॥ एकेन्द्रियादिभेदेन जीवाः पञ्चविधाः स्मृताः॥८॥ - टीका--जडात्मलक्षणोऽजीवस्तत्र आत्मशब्दाभिधेयो लक्ष्यः । अन्यव्यावर्त्तके लक्षणम् । आत्मा च लक्षणं चात्मलक्षणे जडे एवात्मलक्षणे यस्य स जडात्मलक्षण इति द्वन्द्वगर्भितषष्ठयन्तार्थपंधानो बहुव्रीहिः । तथा चाऽजीवशब्दार्थमजानानः शिष्यः पृच्छति कोऽजीव इति । उत्तरमाह जडः । ननु जड इति लक्ष्यं लक्षणं वाऽजीवस्येति चेदुभयमित्याह जडात्मलक्षणोऽजीव इति । ननु जडान्माऽजीव इति वक्तव्ये जडलक्षणोऽजीव इति वा वक्तव्येऽन्यतगेपादानेन सिद्धेऽ पीष्टे उभयोपादानं पौनरुक्त्यमिवाभाति ( तथाहि ) आत्म निष्ठप्रतियोगिताकभेदाधिकरणस्याऽजीवद्रव्यस्य जड इनि ल.. क्षणेऽवगते लक्ष्यत्वसिद्धिरेव न ह्यौष्ण्ये ज्ञाते वह्निर्मातव्यत्वेनावशिष्यते अधवा निरुक्ताऽजीवद्रगस्य जड इति च लक्ष्ये निश्चित लक्षणत्वामिद्धिरेव नहि चेतो वृत्तौ घटे प्रतिफलिते रूपरसगन्धस्पर्शपृथ्व्याकार जलाऽऽहरणसाधनत्वादयोऽशेषविशेषधर्माः प्रमातव्यत्वेनावशिष्यग्न् तथा च पौनरुक्त्यं मुस्थिस्मेवेति चेदत्रायं समाधिः । एकान्तवादिनां नैयायिकादीनां द्रव्यं गुणेभ्यः सर्वथा भिन्नं गुणा अपि द्रव्यात्सर्वथा भिन्ना उ.
For Private And Personal Use Only