________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धव्यवहारमालम्ब्य, शुद्धात्माभवति स्फुटम् ; मर्वज्ञः सर्वदृष्टाच, सर्व जानाति पश्यति. भवद्भूतभविष्यच्च, उत्पत्तिव्ययध्रौव्यकं; ज्ञेयाकारं जगदयत्र, तस्मै सिद्धात्मनेनमः ।। १४२ ॥ ब्रह्मविष्णुमहेशाश्व, देवायत्र प्रतिष्ठिताः रत्नत्रयीस्वरूपेण, तस्मै शुद्धात्मने नमः अद्वैतानां परंब्रह्म, द्वैतानां द्वैतभावना; साङ्ख्यानां पुरुषो यत्र, सम्यक्रख्यातं व्यपेक्षया.॥ १४४ ॥ अस्तिनास्तिस्वरूपाये, सर्वधर्मा व्यपेक्षया; ज्ञेयाः प्रतिष्ठिता यत्र, ज्ञेयं स्याद्वाददर्शनम्
॥ १४५ ॥ दर्शनानि जिनांगानि, सर्वाणि हि व्यपेक्षया; नद्योऽब्धाविवलीनानि, ज्ञेयं स्याद्वाददर्शनम् ॥ १४६ ।। सम्यग् व्यपेक्षया ज्ञाते, वस्तुनि नैव विद्यते; मिथ्यावादो ध्रुवं यत्र, सम्यक्त्वंतत्मातीष्ठितम् . ॥१४७ ।। एकं जानाति तत्सर्व, जानातीति विनिश्चयः सर्व जातानि तद्धयेकं, जानातीति स्मृतौ स्मृतः ॥ १४८ ।। सदसदादिभावाश्च, ज्ञेयाः सर्वे व्यपेक्षया; विशेषावश्यके ख्यातं, विचार्यतत् पुनः पुनः ॥ १४९ ॥ सर्वसिद्धान्तसारोऽय मुपादेयो विचक्षणः ज्ञानदर्शनचारित्र, गुणानामाश्रयो विभुः ।। १५० ॥ उन्मनीभावमासाद्य, सर्वत्र ब्रह्मनिष्ठया; योगिनो निश्चलं नित्यं, प्राप्नुवन्ति शिवं पदं. ॥१५१ ।।
For Private And Personal Use Only