________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मर्वं जडवशं दुःखं, सर्व स्वात्मवशं सुखं; संक्षेपेण समाख्यातं, लक्षणं दुःख शर्मणोः स्वतन्त्रः शुद्धभावेन, पारतन्त्र्यं विभावतः निस्पृहः सर्वकामेभ्यो, यतः किमवशिष्यते. ॥ ९८ ॥ मदीयं यन्नतद्भिन्नं, भिन्नतन्न मदीयकम् ; कुतः शोचामि तुप्यामि, बाह्यभावमनाश्रितः सच्चिदानन्दरूपोऽहं, प्राप्तोऽस्मि शुद्ध चेतनाम् । जाग्रतोऽस्मि स्वरूपात्या, सर्व पश्यामि स्वात्मवत् ॥ १०० ॥ गन्ताऽपि नास्म्यहं गन्ता, वक्ताऽपि वाण्यगोचर; कथ्यते बाह्यभावेन, यद्यत्तन्नाऽस्मि वस्तुतः ॥१०१ । यद् दृश्यं तन्न जीवोऽहं, कोरागो दृश्यवस्तुषु; दृश्यवस्तुषु निबंधो, ह्यात्मारामः सदास्म्यहम् . ॥१०२ ।। मह्यं न कुप्यते कोऽपि, कोप्यं तन्नाऽस्मि वस्तुतः दुष्यं जगति नैवात्र, वस्तुतोऽहं न शब्दभाक्. ॥१०३ ।। शब्दसृष्टिं प्रजानामि, शब्दसृष्टिः कदा न मे; शब्दजाले न पाण्डित्यं, वस्तुतो मे शुभावहं. ॥१०४।। योग्यजीवप्रबोधार्थम् , भाषे भाषां तु वैखरीम्। शब्दब्रह्मपभिन्नोऽस्मि, परब्रह्माऽम्मि वस्तुतः भाषाविचित्र वाच्योऽहं कथंचित् सव्यपेक्षतः अवक्तव्यं स्वरूपंमे, शब्दानां तत्र का गतिः ॥ १०६ ॥ निःक्रोधो निरहंकारो, निर्मायो लोभनाशकृत, बाह्यभावतमोहन्ता, ब्रह्मज्ञानदिनेशतः
॥ १०७ ॥
For Private And Personal Use Only