________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०० 'यूर्वप्रयोगदृष्टान्तैः सिद्धा यान्ति शिवालयं; तीर्थेशो भापते वीरः, केवलज्ञानभानुना. || ७५ ॥ रागद्वेषवियुक्तत्वात, सत्यं ब्रूते जिनेश्वरः धार्या श्रद्धा जिनमोक्तौ, ब्रह्मदर्शनहेतवे. ॥ ७६ ॥ धारणाध्यानयोगेन, समाधिशुभवर्मना; आत्मा परात्मतामेति, सर्वज्ञ भर्भाषितं शुभं. ॥ ७७ ॥ दर्शनं स्वात्मदेवस्य, दर्शनं शर्मकारण; दर्शनं दुःखह नित्यं, शुद्धचैतन्यदर्शकम् . ।। ७८॥ आत्मदर्शनयोगेन, भवभ्रान्तिविलीयते, नश्यन्ति दुर्गुणाःसर्वे, सच्चारित्रं प्रवर्धते. ॥ ७९ ॥ शुभप्रवृत्ति धर्मस्य बन्धहेतु:स्मृताशुभा; नैव संपद्यते मुक्तिः शुद्धात्मानुभवं विना. ।। ८० ॥ अहंवृत्तिं परित्यज्य, सेव्यो धर्मो निजात्मनः शुद्धधर्मस्य प्राप्त्यर्थम्, नान्यः पन्था महीतले. ॥८१ ॥ पञ्चाचारप्रशुद्धिः स्यात्, बाह्यतेस्तु संक्षयः अन्तर्मुखोपयोगेन, जीवन्मुक्तोऽभिधीयते. ।। ८२ ।। व्याप्यव्यापकभावेन, भिन्नाभिन्नंच सर्वतः सर्वज्ञेयं विजानाति, ज्ञेयाद्भिन्नस्तु व्यक्तितः ॥ ८३ ।। ज्ञानस्य ज्ञेयपर्याया आत्मा ज्ञेयो व्यपक्षया; भिन्नाभिन्नाः प्रमायाश्च, ज्ञेयभावाः सनातनाः ॥ ८१ ।। अन्यद्रव्य प्रमाताऽपि, भोक्तानैव कदाप्यह; कल्पितं मामकं यद्यत्, सर्व मिथ्येन्द्रजालवत्.
For Private And Personal Use Only