________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४०१) अथ एवंभूतनयस्वरूपम् लिख्यते॥ एवं जह सदथ्यो संतोभूओ तदनहा भूओ। तेणेवं भूअ नओ सदथ्यपरो बिसेसेणं ।। १ ॥
एवं यथा घटचेष्टायामित्यादिरूपण शब्दार्थो व्यवस्थितः तहत्ति तथैव यो वर्तते घटादिकोर्थः स एवं सन् भूतो विद्यमानः तदनहाभूओति वस्तु तदन्यथा शब्दार्थोल्लंघनेन वर्तते स तत्वतो घटाद्यर्थोऽपि न भवति किं भूतो विद्यमानः येनैव मन्यते तेन कारणन शब्दनयसमभिरूढनयाभ्यां सकाशादेवंभूतनयो विशेषेण शब्दार्थनयतत्परः अयं हि योषिन्मस्तकारूढं जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टमानमेव घटं मन्यते न तु गृहकोणादिव्यवस्थितं विशेषतः शब्दार्थतत्परोयमिति वंजण मथ्थेण थ्थंच वंजणे णोभयं विसेसेइ जह घडसइंचेठा वयातहातंपि तेणेव ।। १ ।। व्यंज्यते अर्थोऽनेनेति व्यंजनं वाचकशब्दो घटादिः तं चेष्टावता एतद्वाच्येनार्थेन विशिनष्टि स एव घटः शब्दो यश्चेष्टावन्तमर्थ प्रतिपादयति नान्य इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः तथार्थमप्युक्तलक्षणमभिहितरूपेण व्यंजनेन विशेषयति चेष्टापि सैव या घटशब्देन वाच्यत्वेन प्रसिद्धा योषि न्मस्तकारूढस्य जलाहरणादिक्रियारूपा न तु स्थानतरणक्रिया
For Private And Personal Use Only