________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
कर्मणां प्रति पक्षत्वात् मुक्तेर्ज्ञानादि कारणं । ज्ञानादीनां विवृद्धिर्हि रागादि क्षय दर्शनात् ॥३॥ रागादेश्व क्षयात् कर्म प्रक्षयो हेत्वभावतः। तस्मा द्रत्नत्रयं हेतु विरोधात् कर्मणां क्षये ॥ ४ ॥ कृत्स्न कर्म क्षयो मोक्षो भव्यस्य परिणामिनः। ज्ञान दर्शन चारित्र त्रयोपायः प्रकीर्तितः ॥ ५ ॥ तत्त्वप्रकाशकं ज्ञानं दर्शनं तत्त्वरोचकं । . पापारंभ परित्याग श्वारित्र मिति कथ्यते ॥६॥ धर्माधर्मावथाकाशं कालः पुद्गल इत्यापि। अजीवः पंचधा ज्ञेयो जिनागम विशारदैः ॥७॥ एतान्येव सजीवानि षड्व्याणि प्रचक्षते । कालहीनानि पंचास्तिकायास्तान्येव कीर्तिताः।।८॥ जलवन् मत्स्ययानस्य तत्र यो गति कारणम् । जीवादीनां पदार्थानां सधर्मः परिवर्णितः ॥९॥ लोकाकाशमभिव्याप्य संस्थितोमूर्तिवर्जितः नित्यावस्थिति संयुक्तः सर्वज्ञ ज्ञानगोचरः ॥१०॥ द्रव्याणां पुद्गलादीनां अधर्मः स्थिति कारणं । लोकेऽभिव्यापकत्वादि धर्मोधर्मोपि धर्मवत् ॥११॥
For Private And Personal Use Only