________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११६) कान्ताधरसुधास्वादा-चूनां यजायते सुखं ।। बिन्दुः पार्श्वतदध्यात्म-शास्त्रस्वादसुखोदधेः ॥ ९॥ अध्यात्मशास्त्रसंभूत-सन्तोषसुखशालिनः । गणयन्ति न राजानं न श्रीदं नाऽपि वासवम् ॥ १० ॥ यः किलाशिक्षिताध्यात्मशास्त्रः पाण्डित्यमिच्छति । उरिक्षपत्यंगुलीपंगुः सस्वद्रुमफललिप्सया ॥ ११ ॥ दम्भपर्वतदंभोलि: सौहार्दीबुधिचन्द्रमाः। अध्यात्मशास्त्रमुत्ताल-मोहजालवनानलः ॥ १२ ॥ अध्वाधर्मस्यसुस्थास्यात्पापचौर पलायते । अध्यात्मशास्त्रसौराज्ये नस्यात्कश्चिदुपप्लवः ॥ १३ ॥ येषामध्यात्मशास्त्रार्थ-तत्त्वं परिणतं हृदि । कषायविषयावेशक्लेशस्तेषां न कर्हि चित् ॥ १४ ॥ निर्दयः कामचण्डालः पण्डितानपि पीडयेत् । यदि नाध्यात्मशास्त्रार्थ, बोधयोधकृपाभवेत् ॥ १५ ॥ विषवल्लिसमां तृष्णां, वर्धमानां मनोवने । अध्यात्मशास्त्रदात्रेण छिन्दन्तिपरमर्षयः ॥ १६ ॥ वनेवेश्मधनंदौस्थ्ये, तेजोवान्तेजलंमरौ । दुरापमाप्यतेधन्यैः, कलावध्यात्मवाङ्मयम् ॥ १७ ॥ वेदान्यशास्त्रवित्क्लेशं, रसमध्यात्मशास्त्रवित् । भाग्यभृद्भोगमाप्नोति, वहतेचन्दनंखरः ॥ १८ ॥ भुजास्फालनहस्तास्य, विकाराभिनयाःपरे । अध्यात्मशास्त्रविज्ञास्तु, वदन्त्यविकृतेक्षणाः ॥ १९ ॥ अध्यात्मशास्त्रहेमाद्रि, मथितादागमोदधेः । भूयांसिगुणरत्नानि, प्राप्यन्तेविबुधैर्न किम् ॥ २० ॥ रसोभोगावधिःकामे, सद्भक्ष्येभोजनावधिः । अध्यात्मशास्त्रसेवाया, रसोनिरवधिःपुनः ॥२१॥ कुतर्कग्रन्थसर्वस्व, गर्वज्वरविकारिणी। एतिदृनिर्मलीभाव, मध्यात्मग्रन्थभेषजात् ॥ २२॥ धनिनांपुत्रदारादि, यथासंसारवृद्धये । तथापाण्डित्यदृप्तानां, शास्त्रमध्यात्मवर्जितम् ॥ २३ ॥ अध्येतव्यंतदध्यात्म, शास्त्रंभाव्यंपुनःपुनः । अनुष्ठेयस्तदर्थश्च, देयोयोग्यस्यकस्यचित् ॥ २४ ॥
(अध्यात्मसार.)
For Private And Personal Use Only