SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Acanthan G श्री प्रस्तावना. अमितसेनशीलवती चरितम् । " सुदर्शनः शीलगुणेन सिद्धा, शीलेन विघ्नानि जिगाय सीता । नलप्रिया दुःखमरं च तीर्णा, दुष्टानि कर्माणि हि यान्ति नाशम् ॥ १॥" शीलवतप्रभावसूचकानि दृष्टान्तानि बहूनि सन्ति शास्त्रेषु, मुख्यतोद्विविधोधर्मः प्ररूपितः, यथा-" प्रवृत्तिमार्गश्च निवृत्तिमार्गो, निर्वाणमार्गों गदिताविमौ द्वौ । समाश्रयन्भूजलमार्गवदै, | भव्यः शनैः स्राक् शिवशर्म यायात् ॥ १॥" तेष्विदमजितसेनशीलवतीशीलमहिमख्यापकं चरितं प्रथितमपि श्रीकुमारपालप्रतिबोधाविप्रन्थेषु प्राकृतसंस्कृतात्मकेषु संक्षेपतो विशेषतो दृष्टान्ताऽलंकृतं विविध रसमयं दिव्यगिरा प्रसिद्धवक्ता शासनप्रभावक श्रीमद् अजितसागरसूरीश्वरेण गद्यात्मकं विनिरमायि, तन्निर्माणसमयश्च " द्वीपरसग्रहधरणी (१९६७) प्रमितेऽयं वत्सरे मधौ मासे, कृष्णाष्टम्यां भानौ, मुम्बापूर्या समापितो प्रन्थः " ॥१॥ प्राचीनप्राकृतप्रन्थेभ्यो विविधदृष्टान्तसमर्थितोऽयं प्रन्यो प्रन्थनिर्मात्रा परोपकृतिबुद्धिना प्राकाश्यमानीतः, सुरभारतीरसिकानां विविधरसलालित्यभाजां सरलत्वेन प्राञ्जलानामपि चेतांसि प्रमोदयिष्यति, अस्मिन् प्रबन्धे शीलवतीशीलप्रभावबुद्धिवेशद्यद्योतकानि विविधरसभृतानि कथानकानि सहृदयहृदयाऽऽद्वादकानि योजितानि रिपादैः, पूर्वाऽर्जितकर्मणां वैचित्र्यं प्रत्यक्षतया विविधसुखदुःखाऽनुवेदनया जन्मभाजा जन्मान्तरीयसुखदुःखानि स्पष्टयत्ययं प्रबन्धः, " सम्यग् ज्ञानदर्शनचारित्राणि मोक्षमार्गः” सम्यग् ज्ञानदर्शनचारित्राणामाराधनयैव मोक्षः, चतुर्विधपुरुषार्थेषु मोक्षो मुख्यतां दधाति, अतस्तदर्थमेव ज्ञानिनो यतन्ते, यतमानाः केचन विद्वाँसो तत्फलं For Private And Personale Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy