SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra +9+1/0/+***++++++******+ www.batirth.org लब्धेऽपि मानवत्वे केचन कुकर्मप्रेरिता रक्कजनहस्तगतचिन्तामणिबन्मानवभवं प्रमादतो हारयन्ति केचन श्राढकुलसंजाता अप्यनार्यजनसंसर्गादनार्थमत कदा ग्रहगृहीताः सावद्यधर्ममाश्रयन्ते केचन देहिनोऽनार्य कुलसमुद्भवा अपि सत्कर्माभ्युदयेन विशुद्धमतयो जैनतत्त्वं समाराधयन्ति, केचन कुतर्ककल्लोलजालवाहिता विशुद्धधर्मतत्त्वसुरापगातटं नाऽऽप्नुवन्ति, केचन प्राणिनः काम्यकर्म विनोदिनः शुद्धाऽऽत्मतत्त्वविमुखा निजात्मानमधः पातयन्ति एतत्कारणं तु तत्त्वप्रतिपादकधर्मशास्त्रामिमुख्यविमुखत्वमेवाऽवसीयते, धर्मतत्त्वानि च द्रव्यानुयोगचरण करणानुयोगगणितानुयोगधर्मकथानुयोगात्मकेऽनुयोगचतुष्टये प्रथितानि सन्ति, तत्र कथाऽनुयोगो दानशीलतपोभावनाभेदेन चतुर्विधो वर्णितो जिनपदैस्तद्यथा - " दानं सुपात्रे विशदश्च शीलं तपोविचित्रं शुभभावना च । भवार्णवोत्तारण्यानपात्रं, धर्मं चतुर्धा मुनयो वदन्ति ॥ १ ॥ दानधर्मो द्रव्यैकसाध्यः श्रीमतां सुकर इत्येव न किन्तु निःखा अपि शालिभद्रपूर्वजीवद्दानधर्मं समाराध्य महोन्नतपदं लभन्ते तपोभावनेऽपि तत्त्वबुद्धया भव्यात्मनां सुखसाध्ये स्तः, शीलपालनं तु कामसायक जर्जरिताङ्गानां दुष्करमेव विभाव्यते, तथा च - " तावद् मौनी यतिर्ज्ञानी, सुतपस्वी जितेन्द्रियः । यावन्न योषितां दृष्टिगोचरं याति पूरुषः || १ || " अतः शीलत्रतं सर्वत्रतेषु श्रेष्ठतमत्वं धारयति, ब्रह्मव्रतप्रभावो निर्मन्थनाथैरनेकधा प्रतिपादितोऽस्ति तथा च-- " “ ब्रह्मचर्यरतालोका-स्तरन्ति भवसागरम् । तस्माद् ब्रह्मव्रतं सेव्यं, मोक्षलक्ष्मीनियामकम् ॥ १ ॥ " पुरा शीलतप्रभावेणाऽनेकशो नरनारीगणा भवपाथोधिं गोष्पदमात्रं विधायाञ्जसा सिद्धगतिं प्रापुः उक्तं च For Private And Personal Use Only 93+***+******+++++ Acharya Shri Kassagarsuri Gyanmandir
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy