________________
ऽलङ्कृतमभ्रलिहं महाविशालमेकंदेवसम समागतं, तद्विलोक्य रत्नाकरः प्रोवाच-देवमन्दिरमिदं मनोहरं, शोभतेऽमर | विमानकान्तिहृत् । भूरिभाग्यजनदृष्टिगोचरं, जायते सुरवरैरुपासितम् ॥ १ ॥ तच्छ्रुत्वा शीलवतीजगाद-नेदं देवसदनं प्रशंसनीयमस्ति, तथैवनास्माकमुपयोगिदृश्यते । एतादृशंतस्या विरुद्धं वचनं समाकण्ये महेभ्यश्चेतस्यज्ञासीत् यदियंप्रगन्भवनितावद्विपरीतवादिनी विलोक्यते । पुनरग्रे तस्मिन्ब्रजति सति भूरिजनसमाकीर्ण महर्द्धिसम्पूर्ण विचित्रशोभाऽलङ्कृतंरमणीयतरमेकं नगरं समागतम् । तन्मध्ये ब्रजतारत्नाकरेण तदीयांदीव्यशोभा निरीक्ष्य प्रोक्तम्-महर्द्धिकैः सेवितमप्रमेयेरखण्डिताथैरकलङ्कभाग्भिः । नरोत्तमैः सर्वसुखैकधाम, विभ्राजते पत्तनमीक्षणीयम् ॥१॥ अतोऽत्रैवैकानिशा निर्गमयितव्येति श्रेष्ठिवचनं निशम्य सा शीलवत्यवदत्-इदं नगरं कान्तारमिव शून्यं मे प्रतिभासते, नात्रक्षणमपिस्थेयमिति तस्या विरुद्धोक्तिश्रवणेन संजातमहाखेदः स पुरतोव्रजन्कृषीवलसमाजुष्टमेकं ग्रामविलोक्य समाचल्यो-शून्योऽस्ति धनधान्यसमृद्विहीनो-ग्रामोध्यमाराधकहानिदायी । विज्ञायविद्वद्भिरिति स्वयंद्राक , गन्तव्यमस्मात्सुभगे? तिदूरम् ॥१॥ तदा शीलवती जगाद-अहो ? अस्मिन्ग्रामे प्राक्तनपुण्यप्रभावेणोत्तमजनानां निवासो भवति । इत्यादि तदीयं विरुद्धजल्पनं निशम्य स श्रेष्ठी सरलाभिप्राये स्वचेतसिपरं विषादमापनो व्यचिन्तयत-अहो ? गृहीतविपरीतशिक्षणस्तुरङ्गम इवविनीतेयं विद्यते, दुष्टहृदयाचेयं सर्पिणीव वक्रगामिनी वर्त्तते, अस्या वध्वादुश्चरित्रं पुत्रेण यभिवेदितं तत्सत्यमेवाऽस्ति, तयाऽपकृत्यं सेवितं नवेतितुनमयाप्रत्यक्षीकृतम् , परन्त्वनेनविरुद्धजल्पनेन तदनुमीयते । प्रत्यक्षविषये सा मृषावादिनीतिनिश्चयस्तु जायते । एवंध्यायतस्तस्यरथो ग्राममध्ये प्रयाति, तावत्तद्भामवास्तब्धः शीलवतीमातुलः स्वसम्बन्ध्यागमनं ज्ञात्वा स्यन्दनान्तिकं
For
And Personale Only