________________
ShriMahavir JanArchanaKendra
Acharya:sha.kathssagarsunGvanmandir
पुत्रनाम विनिर्णयामास, यतोऽयं बालोऽजितनाथभगवतो मन्दिरस्य द्वारदेशस्थिताया अजितबलाख्यदेव्याः प्रसादेन । समुत्पन्नस्ततस्तदनुसारेणाऽस्यशिशोरजितसेनेत्यभिधानं ज्ञातव्यमित्यभिधाय रत्नाकरः सर्वाञ्जनान्स्वस्वस्थानं व्यसर्जयत् । प्रसवदुःखेनक्षीणदेहाया श्रेष्ठिन्या उत्सङ्गवर्तिनं तं बालविलोकयतोमहेभ्यस्यात्मनिगुरु महर्षोनप्रबभूव । तस्यशिशोर्विसर्पता तेजःपुञ्जन मणिप्रदीपानां कान्तयो निस्तेजसोऽभूवन् । अवशिष्टेनगर्भरागेणपूर्वद्रिचूलामारूढं बालारुणमण्डलमिव, सायंकालीनं शशाङ्कविम्बमिव, कल्पवृक्षस्य सुकोमलः पल्लव इव, विकसितोरक्ताम्बुजवज इव, भूमिनिरीक्षणायदिवःसमायातो भौम इव स कुमारोबमासे । प्रवालाकुराणां पल्लवैः प्राभातिकप्रभाकरबिम्बविभागैः किंवा पनरागमणिकिरणैविनिर्मिता इव तस्यशरीरावयवाश्चकासिरे । सुराङ्गनानां करकमलेभ्यश्श्युतः जयन्तकुमार इव स विरराज । अग्न्युत्तप्ततपनीयवद्भासमाननिजदेहभासा शयनगृहं सम्पूर्णमातन्वन्निव स बालोदीप्तिमानासीत् । महापुरुषचिह्नानि तस्मिन्निवासं चक्रुः। आयतावसौ वालो मां पालयिष्यतीति विज्ञाय मोदमानमानसा लक्ष्मीस्तं प्रथमतः समालिलिङ्ग, प्राक्तनपुण्यप्राग्भारेण संञ्जातं पुत्रं मन्यमानो रत्नाकरो निर्निमेषदृष्ट्या पुनःपुनस्तन्मुखारविन्दं विलोकमानः परमां मुदं प्राप, अनेनसूनुनानिखिल मनोरथानां फलितत्त्वात्सश्रेष्ठी निजजन्म कृतकृत्यममस्त । तत्प्रियसुहृत्सुमतिचन्द्रः प्रीत्युत्फुल्लनयनाभ्यां तस्य बालस्य प्रत्यङ्गं निरीक्ष्यमाणोऽसकृच्छेष्ठिनं शनैः शनैरित्युवाच-महेभ्य ? गर्भपीडनेनेदानी कुमारस्य सर्वावयवानां सम्पूर्णा शोभा न प्रकाशते । तथाऽपीमानि चिह्नान्यस्य बालस्य प्रभाव स्पष्टं कथयन्ति-विकसितकुसुदामं नेत्रयुग्मं विशालं, रुचिरनिटिलदेशः सान्ध्यचन्द्रानुकारी । (थाष्टमीन्दु प्रकाशः) । सुरभिमुखसुगन्धं नासिका जिघ्रतीव, प्रविततमृदुकान्तिश्चास्य बालस्य
For Private And Personlige Only