________________
प्रथमः प्रस्तावः।
श्री तरणिमिव जगदेकमहानन्दनिदानं पुत्र प्रासूत । तस्मिन्नेवक्षणे प्रमोदवेगेन परितोधावतां संख्यातीतानां निजपरिजनानां अजितसेन ! चरणविन्यासभूमिभागं कम्पयनगरञ्चगर्जयन्महान्महोत्सबारम्भः संजज्ञे । तज्जन्मनि जाते सति सर्वजगत्सुखमयं जातम्शीलवती
दिशः प्रसेदुर्मरुतोववुः सुखाः, शुभाशिषः सर्वजनाबभाषिरे । बभूव सर्व शुभशंसितत्क्षणं, भवोहिलोकाभ्युदयाय तादृशाम् चरितम् ।
॥१॥ इतस्ततःसंचरन्तीनामन्तः पुरपुरन्ध्रीणांनूपुरादिविभूषणानामवर्धारितसुधापानः परमहृयोरणत्कारः सर्वतः प्रससार।
निजास्थानस्थितस्य श्रेष्ठिनः सन्निधौ सुतजन्म, निवेदितुं व्रजन्तः प्रमोदपूरनिमग्नाः केचन कञ्चुकिनोऽहमहमि॥१०॥ कया जग्मुः। जनसंमर्देषु निपीड्यमानाः स्वात्मानमुद्धर्तुमसमर्थाः कतिचित्कुब्जबामनकिरातजनाः निपतनेन विकलाङ्गा
बभूवुः । पारितोषिकजिघृक्षया जनवाताः परस्परं विवाध्यमानगात्राउपर्युपरिन्यपतन् । सुतजन्महर्षितो रत्नाकरोनिजविभवानुसारेण सर्वाञ्जनान्सन्तोषयामास । मन्दराद्रिना मध्यमानस्य क्षीरनिधे?षमनुकुर्वन्दुन्दुभिनादः पूर्वव्यनदव , ततोमृदुमृदंग शङ्गकाहलानकदुन्दुभिप्रभृतीनि मंगलपटहसहितान्यनेकानि वाद्यानि विनेदुः । तत्र समेतानामनेकेषां कलकलध्वनिना त्रिभुवनं व्याकुलीकुर्वन्निव सुतजन्ममहोत्सवकोलाहलोबाधिर्यमुत्पादयामास, सान्तःपुरवर्गाः सामन्तजनाः समग्रप्रकृतिसमेता राजलोका वाराङ्गनाभिःसहिताचालवृद्धाश्च सर्वेजनाभृशमुमुदिरे । चन्द्रोदयं निरीक्ष्य जलनिधिरिव श्रेष्ठिसनोर्जन्ममहोत्सवं संप्रेक्ष्य प्रतिक्षणं जनानां प्रमोदेन सार्क कोलाहलोववृधे । अथ तृतीयस्मिन्दिने यथाविधि शास्त्रमर्यादा पालयता श्रेष्ठिना बालस्यविभावसुनिशाकरावलोकनं कारितम् । ततः षष्ठे दिने रात्रिजागरिकां विधाय वृद्धवनिताभिः पष्ठिकाकृत्यं निर्वर्तितम् । द्वादशेदिनेऽथ संपाप्ते देहशुद्धिं संपाद्य ज्ञातिसमेतान्सर्वान्सुहृवर्गान्मेलयित्वा सुतजन्महर्षितः श्रेष्ठी भोजनादिना सत्कृत्य
For PvAnd Personale Only