________________
ShriMahisvir Jain ArachanaKendra
Achanh
sagan Gyaan
ज्ञानतिथिरिति जिनसिद्धान्ते कथितम् , अस्यां तिथौ निजशक्त्या ज्ञानपूजनं तपश्च विशेषतो विधेयम्, उक्तं च,
ये भव्या ज्ञानपश्चम्या, वस्नगन्धसुमादिभिः । नैवेद्यदीपसहितं कुर्वन्ति ज्ञानपूजनम् ॥ १॥ तथैव-यथाशक्ति तपश्चैव, कुर्वन्ति विशदं तथा । ते भवान्तरमासाद्य, शुद्धबुद्धिमुपासते ॥२॥
सौभाग्यादिगुणैश्चापि, भूषिताः सुखभागिनः । भव्यात्मानो जिनेन्द्रस्य, प्राप्नुवन्त्यचयं पदम् ॥३॥ एवं प्रवर्तिनीवचनं निशम्य दुर्गिलाजगी,-इयं ममस्वामिनी सुयशा धन्याऽस्ति, यतो या स्वसामर्थ्य तपसाव्ययते, धनंच धर्मेनियोजयति, मादृशी भाग्यहीना स्वधन्या तपः कर्तुमशक्ता किं करोति, ततः प्रवर्तिनी बभाषे-सुभगे? दानं तपश्च शक्तिमन्तरा नैवविधीयते, परं शीलपालनंतु सर्वेषां स्वाधीनमेवाऽस्ति, तस्माचं परपुरुषनिवृत्तिरूपं शीलवतं यावजीवं स्वीकुरु ? तत्राप्यष्टमीचतुर्दश्योः स्वपतिसंगो न विधातव्या, भद्रे ? एवं विधानेन त्वमपि कल्याणं प्राप्स्यसि, ततोदुर्गिला शीलवतंधारयित्वा, निजात्मानंकृतार्थमन्यमाना निजनिकेतनंसमागत्य तवृत्तान्तं निजस्वामिनं कथयामास, तन्निशम्य सन्तुष्टहृदयो दुर्गतोऽपिता बहुमन्यमानोऽवदत् , प्रिये ? अद्यत्वया जीवितव्यस्यफलं लब्धम् , किश्चाद्यारम्याहमपि परदारान् परिहरामि, तथैव तेषु पर्वसु स्वदारसंगमपिन करिष्यामि, एवं नियमं गृहीत्वा ताभ्यामनुक्रमेण सम्यक्त्वमपि स्वीकृतम्, ततोदुर्गिला विशेषतः संजातश्रद्धयास्वयं तपश्चर्या कुर्वन्ती तस्मिन्पर्वणि ज्ञानपूजनं समाचरन् । प्रान्ते तौ दम्पतीकालंकृत्वा सौधर्मदेवलोके देवोत्तमत्वं प्रापतुः, ततश्रुत्वा दुर्गतजीवो हे मन्त्रिन् ! त्वमजितसेनो | जातोऽसि । दुर्गिलाजीवश्चयं तव भार्या शीलवती समुत्पन्नास्ति । सा चेयं ज्ञानाराधनतो विशिष्टमतिभाजनं जाताऽस्ति ।
For Private And Personlige Only