________________
कथासार
णाऽपिसम्यक् तानुपलक्ष्य सविस्मयं बभाषे, भद्राः ? इमां दुर्दशा कथं प्राप्ताः, ततस्तैः साद्यन्तं यथास्थितवृत्तान्त | अजितसेन * नृपतेरग्रे गदितम् । ततो महीपतिना शीलवतीं समाकार्यतां श्लाधयता कथितम् । अहो ! तवबुद्धिचातुर्यम् !, अहो ! तव शीलवती
शीलरक्षणाय प्रयत्नः, अहो तवोभयलोकभयविलोकने प्रधानत्वम् ?, एवं शीलवती भृशं प्रशंसन् नृपतिः पुनः स्वाप
राधं समयन्नवोचत् , तवभर्तुःकण्ठस्थितां पुष्पमालामम्लानां विलोक्य तव शीलस्य प्रकटं महिमानं विलोकयतो मम ॥११॥ मनसि श्रद्धा न जाता, अतोमयेमे कामाङरादयस्त्वत्सन्निधौप्रेषिताः, तस्मात् सति ? त्वया कोपो न विधेयः । एवमभिधाय
नृपतिस्तांमुहुः चमयामास, ततः शीलवत्यपि धर्म श्रावयित्वा राजानं बोधयामास, तथैव सा नृपतेः सर्वान नर्मसचिवान् परनिगमनात् निवारयामास । ततः शीलवती गृहीतराजसत्कारानिजसौधं जगाम, अन्यदा-गजघटाभिः परिवृतोगन्धहस्तीव मुनिगणराजितश्चतुर्ज्ञानधरो धर्मघोषनामाऽचार्यस्तत्र समागतः, शीलवत्या समेतोऽजितसेनमन्त्रीतं वन्दितुंगता, गुरु वन्दित्वा सभार्य स यथोचितस्थाने समुपविष्टः, तदानींसूरीश्वरः शीलवतीमुद्दिश्य बभाषे, भद्रे ! त्वं धन्याऽसि, पूर्वभवा:भ्यासेनैवाऽधुना शीलव्रतपालने सावधानाऽसि, ततोमन्त्रिणापृष्टम् , भगवन् तत्कथं ज्ञातव्यम् , गुरुर्जगाद, कुसुमपुराभिधे नगरे सुलसनामा श्रेष्ठी सक्रियायांदक्षः पापप्रवृत्तौचादचो बभूव, सुयशा तस्यभार्याऽसीत् , तद्गृहे च भद्रभावो दुर्गतनामा, कश्चिक्किंकरोऽभवत् , तस्य सुदुर्गिलाऽभिधाभार्याऽऽसीत् , एकदा सुयशा श्रेष्ठिन्यासाकं दुर्गिला साध्वीनां वसतिं जगाम, तत्र श्रेष्ठिन्या मनोहरवस्त्रकुसुमादिभिः पुस्तकं सविस्तरं संपूज्य चन्दनाप्रवर्तिनीमभिवंद्योपवासस्य प्रत्याख्यानं विहितम् , तदादुर्गिला प्रवर्तिनीमभिवन्ध पप्रच्छ-भगवति ? अद्य किमस्ति ! साध्वी जगाद, भद्रे । अद्य शुक्लपञ्चमी विद्यते, सा
॥११॥
For
And Persone
ly