________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
कथासार
अजितसेन शीलवती
॥१०६॥
स्थितः, निशायां च तनिधानं तेनगृहीतम् , अनेन व्यतिकरेण चमत्कृतः अहो ? इयं तु साक्षालक्ष्मीरस्तीतिवदन् बहुमान पूर्वक तां रथे चोपविश्य श्रेष्ठी तस्मादेवस्थानानिवृत्य तस्यैव वटतरोः सनिधौ समागतः, तत्र तेनवधूः प्रष्टा-कथंत्वमस्य वटवृक्षस्य छायायां नोपविष्टा ! तदासाऽवदत्, वृक्षस्याऽधः सपेदंशादिकभयं वर्तते, किश्च चिरं तत्रोपवेशनाचौरादिकभयं जायते, तथैव तदधोभागस्थितानां वायसबकादीनां विष्ठापतनस्यभयं वर्तते, किन्तु दूरदेशस्थितानां पूर्वोक्तं किमपि भयं न जायते, तदा तं शूरमुद्दिश्य पुनः श्रेष्ठिना पृष्टम् , वत्से स वीरपुरुषः कुट्टितः, इति त्वया प्रोक्तं तस्यकोहेतुः शीलवती जगादयोजजेंरिताङ्गः स नैवशूरः परन्तु यः प्रथमं न प्रहरति सशूरः, ततस्तनगरमागतं विलोक्य श्रेष्ठी तां बभाषे, इदं नगरं त्वयोदसितं कथं ज्ञापितम् , साध्वोचत् , यत्रस्वागतकारकः स्वजनो न तिष्ठति तत्स्थानं जनाकीर्णमपि शून्यमिव ज्ञेयम् ॥ ततोमुद्गक्षेत्रं विलोकमानः श्रेष्ठी तां प्रोवाच, इदं क्षेत्रं भक्षितं त्वयाकथमुक्तम्, शीलवती जगौ, धनिकाद्धनं गृहीत्वा क्षेत्रपतिना कुसीदेन तद्धनं भक्षितं चेत्तत्क्षेत्रं भचितं कथ्यते, तस्मिन् समये नदीं विलोक्य श्रेष्ठिना सा जगादे, नदीमुत्रन्त्या त्वया पद्भ्यामुपानही कथं न निष्कासिते ? साब्रवीत् , वारिणि कीटकंटकादयो न दृश्यन्ते, तस्मादनुपानकचरणाभ्यां गमने क्षतिर्भवेत् , ततोगृहमागता शीलवती श्रेष्ठिनं भूमिसात्कृतानिरत्नानि दर्शयामास, तेन प्रमुदितो रत्नाकरःश्रेष्ठी तत्सर्ववृतान्तं निजभायों पुत्रं च विज्ञाप्य शीलवतीं गृहस्वामिनी चकार, कियत्कालानन्तरं जीवितव्यस्य चाञ्चल्याद्रत्नाकरश्रेष्ठी मृत्युमवाप, तद्विरहाच्च छायेव तस्यभार्या लक्ष्मीरपि पञ्चत्वमियाय, ततोऽजितसेनोऽपि जिनधर्मेरक्तः कालंगमयामास, अन्यदारिमईननरेश एकोनषद्शतेषु मन्त्रिषु मुख्यमेकं मन्त्रिणं विधातुं व्यचिन्तयत् , प्रत्येकं च पौरजनानपृच्छत् , पौराः?
॥१६॥
For Private And Personlige Only