________________
PSIकथासारा
भजितसेन शीलवती
॥१०॥
नापीय भक्षितमेतत्कथयति, तस्मादियं वितथवादिनी विद्यते, ततोऽग्रे व्रजतोस्तयोरेक सम्पदाव्यं सुखिजनसम्भृतं नगरं समागतं तदृष्ट्वा श्रेष्ठी वभाषे, अहो ? अस्य नगरस्य रमणीयता? शीलवती जगौ, यदिदं नोद्वसितं तदारमणीयम् । तदानीं श्रेष्ठिना स्वचेतसि विचिन्तितं मदोन्मत्तैषाऽसमञ्जसवादिनी वर्त्तते, ततोऽग्रेऽनेकप्रहारैर्जर्जरिताङ्गः शस्त्रकरः कश्चिदा गच्छचेककुलपुत्रकः श्रेष्ठिनाव्यलोकि ? ततस्तेनोक्तम् , अहो ? अयं कश्चिद्वीरपुरुषो विद्यते । तदाशीलवत्या कथितम् । अयं कुत्रापि कुट्टितोऽस्ति, श्रेष्ठिना चिन्तितं किं वीरस्य शस्त्रप्रहारा न लगन्ति !, किन्त्वेषा बरेवायुक्तवादिनी, ततोव्रजन् श्रेष्ठी बटतरोरधो विश्रामायोपविष्टा, शीलवती च वटछायां विमुच्य दूरत उपाविशत् , तदा श्रेष्ठ्यवोचत्-भद्रे! छायायामुपविश, तथापि सा नोपविष्टा, ततः श्रेष्ठिना निश्चिक्ये, एषा सर्वथा विपरीतवर्तिनी विद्यते, ततोऽग्रे कश्चित् ग्रामः समागतः, तदानी वधूः श्रेष्ठिनमकथयत् , अत्र मममातुलस्य गृहं विद्यते, तस्मात्तस्यशुद्धिं करोमि तावचमत्र निपीद, एवमुक्त्वा सा ग्रामं प्राविशत् ,-तस्या मातुलस्तामचिन्त्यागमनां विलोक्य पप्रच्छ, वत्सेक गच्छसि ? सावदत्मच्छशुरेण साकं पितगृहं व्रजामि, मातुलेन प्रोक्तं तव श्वशुरः कास्ति ? सा प्रोवाच-सतु बहिः स्थितः । ततस्तत्र गत्वा मातुलः स्वागतपूर्वकं श्रेष्ठिनमाजुहाव, स च प्रागेव क्रुद्ध्यमानस्तद्ह प्रयातुं नैच्छित् , तथापि बहुशः प्रार्थयित्वा श्रेष्ठिनं स निजगृहमानिनाय, तत्र भोजनं विधाय श्रेष्ठी बहिरागत्य मध्याहे जाते सति रथे विश्रामायाऽवतस्थे, तदाशीलवत्यपि रथस्य छायायामुपविष्टा, तदानीं करीरस्थोवायसो मुहुर्मुहुरारटत्, तदाशीलवत्या कथितं रे वायस! कटु रटन् किं न विरमसि ?,
भा॥१०॥
For Private And Persone
n