________________
PE हितस्तु गाढतमोव्याप्तायां निशि सद्यस्तासां तेन सह पाणिग्रहं कारयित्वा गान्धर्वविधिना विवाहकार्य संपूर्णयामास।
ततो यथेष्टदक्षिणां लब्ध्वा स निजस्थानमवाप । प्राप्तव्यस्तु कन्याभिः सहितस्तत्रैवस्थितः, क्षणाद्विरम्य प्राप्तव्यस्ताः पप्रच्छ-मदिरेक्षणाः ? स्ववाञ्छितं किमद्य सफलं जातम् । इति तदुक्तवचनं समाकर्ण्य ताःस्वमनसि बुबुधुः-अहो! रहश्चिन्तितेऽप्यस्मिन्कार्ये किमपि कपटं जातमस्ति, अन्यथाऽयं प्राप्तव्योऽस्मान्कथं परिणयेत् । इदानीं विषादेन सृतम् । इत्यभिधाय प्रथमा राजसुता प्रोवाच-"प्राप्तव्यमर्थ लभते मनुष्यः, " ततो द्वितीया प्रधानपुत्री जगाद-"शक्तो न तं नाशयितुं हि देवः" । ततस्तृतीया न्यायविदः पुत्री बभाषे-"ततो न मे विस्मयशोचनार्तिः," ततश्चतुर्थी दुर्गपालपुत्री प्रावोचत-" यत् स्वीयमेतन्न परस्य जायते" ॥१॥ एवं चतसृणां कन्यानां संभाषणं निशम्य प्राप्तव्यो निजचेतसि व्यचिन्तयत्-अद्यास्य श्लोकस्य सपादलक्ष धनं दत्तमपि सफलमजनि । अथैतस्यामेव रजन्यां तस्मिन्नगरे कश्चिदन्यो वरो ग्रामान्तरात्कस्यचिद्गृहस्थस्य कन्यां परिणेतुं समागतोऽस्ति, तस्यां वरयात्रायां पञ्चाशत्पुरुषा सन् , ते सर्वे नगरं प्रविशन्ति तस्मिन्समयेऽचिन्त्योपद्रवा मुसलधारा वृष्टिः पपात, तया व्याकुलिता वरप्रमुखाः सर्वे पलाय्य भिन्न भिन्नं प्रदेशं
भेजुः । तदानीं स प्राप्तव्योऽपि कस्मिंश्चिदापणे संकुचितशरीरावयवः समेत्य संस्थितः। तस्मिन्नेवापणे वरजनकोऽन्येपि al केचन जनाः समागत्य स्थिताः । तैविपुत्प्रकाशेन तत्र स्थितं वरालङ्कारभूषितं प्राप्तव्यं विलोक्यायं वर इति विज्ञातम् । | क्षणावृष्टौ विरतायो तमोव्याप्तायां रजन्यां तमेव वरं मन्यमानाः सर्वे प्राप्तव्यमग्रतोविधाय विवाहमण्डपं जग्मुः । एतस्मिन्समयेऽन्ये जनाः सत्यं वरं परितः शोधयित्वा तेन सहितास्तत्र समागताः । एवमुभौ वरौ मण्डपद्वारि समुपस्थितौ ।
For
And Persone Oy