________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
निबद्ध्यस्वस्थानंप्रययौ। द्वितीयस्मिन्दिनेप्रातः समुत्थाय नभवतिः स्वनियमानुसारेण दैनिक सेवाकार्य निर्वाह्यनिशायां निजस्थानमभ्येत्य वस्त्राभरणादिसमेतो राजविलासोद्यानं जग्मिवान् । स्वस्यजीर्णानि वसनानि निजाङ्गात्समुत्तार्यमहामूल्यानि वस्त्रालङ्करणानि तेनपरिहितानि । स्वयंक्षत्रवंशे समुत्पन्नो राज्यासनभागी च विद्यते, पुनर्वरराजस्य रत्नवसनालङ्कारान्परिहितवान् , अधुनातच्छोभायाः किंवर्णनं क्रियते ? वर्मनिप्रयान्तमेकं पुरोहितमपि भाटकेनगृहीत्वा निजान्तिके स्थापयित्वा नभवतिः कन्यानामागमनंप्रतीक्षमाणः कालं यापयतिस्म । गाढान्धकारच्छन्नायां तमस्विन्या श्रमखिलावुभौतदेकध्यानपरायणौ शीतेनसङ्कुचितगात्रौ स्तेनवत्तुष्णींतस्थतुः । तावत्ताश्चतस्रः कन्या देवदर्शनं निमित्तीकृत्य दासदासीवर्गमपहाय चैकस्मिन्स्यन्दने समुपविश्यविलासोद्याने समाजग्मुः । रथादुत्तीर्य यावत्रभवतेः सनिधौ ता गच्छन्ति तावत्प्रथमतः सश्चितया विवाहसामग्र्या पुरोहितेन नभवतिना साकंपाणिग्रहंकारयित्वासत्त्वरं विवाहविधिस्तासां समापितः। ततोलब्धष्टदक्षिणः पुरोहितः स्वस्थानंययौ । अथ वरसमेतास्तास्तदुद्यानवर्तिराजभवनं तद्रक्षकेन समुद्धाव्य दीपोयोतं कारयित्वातस्मिन्प्रासादे सुखविलासार्थजग्मुः । ततःसुखोपविष्टास्तावरंविलोकयन्त्यः स्तब्धा अजनिषत, किमधुना कर्त्तव्यं किमुवक्तव्यंवेति विचारशून्यहृदयास्ता विनम्रानना भूतलबद्धदृष्टयोऽभूवन् । तदानी नभवतिना राजसुता पृष्टा-नृपनन्दिनि ? भवत्या मनोभिलाषा संपूर्णा किंसमजनि ? साऽवदत्-'नभवतियन्नहिभाव्यं,' एतावदुक्त्वा सा तुष्णींबभूव । तथैवतेनपृष्टा प्रधानपुत्री जगाद-'भवति हिभाव्यविनाप्रयत्नेन । इति पठित्वासाऽपिविरराम । ततस्तृतीयां न्यायाधीशदुहितरंसजगौ-किंतवमनोभिलषितं सफलं जातम् ? तदानींसाप्यवादीत्-'करतलगतमपिनश्येत् ,' इत्थंनिगद्यसाऽपि मौनमुखीजाता । अथतुर्या दुर्गपालात्मजांसबभाषे
For Private And Personlige Only