________________
ShriMahavir JanArchanaKendra
Acharya:shkailassagarsunGyanmandir
हितः । दूतोवर्मन्यागच्छंस्तदपि पत्रं स्वयं वाचयित्वा निजस्थानं समागत्य ताभ्यः प्रादात् । ततः परस्परपत्रव्यवहारेण कियान्कालस्तासां व्यतीयाय । अथैकस्मिन्दिने कस्मिंश्चित्स्थानेतेन श्रेष्ठिमनुना सार्द्ध मिलित्वाताभिरिति निश्चयोविहितः, अमुकस्मिन्वासरेऽमुकस्थानेऽमुकसमये शुभेमुहूर्तेकमपि पुरोहितं साक्षीभूतं विधाय गान्धर्वविधिनाऽस्माभिः पाणिग्रहोऽवश्यं संपादनीयः । इत्थं संकेतं विधाय ते सर्वेस्वस्वस्थानंजग्मुः। एतद्वृत्तान्तं तदितरः कोऽपि न जानाति, अनक्षरज्ञोऽयंदूतस्तु| बराकोऽस्मत्संकेतं किश्चिदपि न वेत्तीति विज्ञाय भ्रातृचन्द्रसमेताभिः कन्यकाभिः साहसिकंकार्यमिदं समारब्धम् । यतःसहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । वृणतेहिविमृश्यकारिणं, गुणलुब्धाः स्वयमेवसंपदः ॥१॥ इति नानाविधेषु नीतिवाक्येषु यद्यपि स्वयं कुशलाः सन्ति तथाप्येततत्साहसं विधातुं समुद्यतास्ताः किश्चिदपि ना पेक्षन्ते स्म । तथाऽप्युत्तरस्मिन्कालेदैवनियोगात्किभविष्यतीति न विज्ञायते । यतः-भाग्य फलति सर्वत्र, न च विद्या न च पौरुषम् । समुद्रमथनाल्लभ, हरिर्लक्ष्मी हरोविषम् ॥१॥ अथ विज्ञाततत्कार्यरहस्यः सदूतस्तासां लग्नदिनादाग्दिवसे लालचन्द्रश्रेष्ठिनोगृहं गत्वा तदन्तिके स्थित्वा प्रथम प्रासङ्गिकं वार्तालापं विधाय पश्चात्स्वसमीहितमवोचत्-महेभ्य ? श्वोभवतो गृहे समागन्तुं ममावकाशो भवेत्रवा तस्मादधवासरे लौकिकार्थ समायातोऽस्मि । ईदृशं वज्रपातसममशुभं 'नभवतिवचनं' निशम्य कम्पमानशरीरः श्रेष्ठी प्रोवाच-नभवते ! कस्य लौकिकार्थ त्वं समागतः ? कृपांविधाय शीघ्रं तत्रिवेदय । तदा स जगाद-श्रेष्ठिन् ? त्वन्तु मां सम्यक् जानासि, सर्वदाऽहं राजसबनि तिष्ठामि, नृपतेः कन्यका रक्षामि, ताश्चगृहीत्वा पाठशालायां सततं गच्छामि, पुनरध्ययनान्ते गुर्वनुज्ञातां तां समानीय नरेशितुः समीपे स्थापयामि । यद्यवकाशो मिलति तदात्व
For Private And Personlige Only