________________
Achanach
sagan Gyaan
चतुर्थ प्रस्ताव
श्री अजितसेन शीलवतीचरितम् । ॥ ७॥
अस्मिन्विषये मदीयमनः साशकं तिष्ठति, अधुना त्वस्माकमभिन्नं हृदयं विद्यते, शरीरमात्रेण भिन्नता दधामः, भोजनासनपानादिकाः सकलाः क्रियाः सहैवाचरामः । सुखदुःखवृत्तान्तमपि परस्परं निवेद्य मनःसमाधानं कुर्मः। तथाप्येतत्सुखं स्वल्पदिनान्येव पश्यामि, यतः स्वस्वमातापितृभ्यां परिणयनसमये प्रदत्ता वयंभिन्नभिन्नदिम्वतिन्यो भविष्यामः। अतोऽस्माकं वियोगोयथानस्यात्तथोपायः प्रागेवाऽस्माभिर्विधातव्यः । इति प्रधानसुतागदितं वचनं निशम्य राजसुता प्रोवाचप्रियसख्यः । वयं सर्वाः प्रशस्तगुणसम्पन्नं रूपसौन्दयेशालिनं सकलकलावित् मेधाविनमेकनरं प्रसन्नीकृत्यपितृजनानपृष्ट्वा गुप्तरीत्यागान्धर्वलग्नेन परिणयामस्तर्हि यावज्जीवमस्माकं प्रीतिसंवन्धोऽविच्छिन्नतया तिष्ठति, स सम्बन्धः कस्मिन्नपि समये न विनश्यति । इदं राजकन्यकोक्तं वचनं ताभिस्तिमृभिः प्रमाणीकृतम् । पुनर्नृपाङ्गजाऽवादीत-सख्यः ? अस्माकमस्मिन्पत्तने नगरप्रेष्ठिनो लालचन्द्रस्य सूनुभ्रातृचन्द्राभिधानोऽनवद्यरूपगुणलावण्यनिधानो लक्षणतोऽप्यधिकतरशोभा धारयन्विराजते। तेन महेभ्यसूनुना पाठशालायामसाकं विद्याशिक्षणार्थ महान्प्रयासोविहितोऽस्ति । अस्मिन्पत्तने तदीयं गृहं महर्द्धिजुष्टं निगद्यते, जनेष्वपि प्रतिष्ठितकीर्तिरसौश्रूयते । तस्मात्तेन साकं लग्नमस्माभिर्विधातव्यमेवंकृतेकापिक्षतिर्नसंभाव्यते । प्रथमन्तु भ्रातृचन्द्रस्याभिप्रायः कीदृशोऽस्तीति परीक्षितव्यमस्माभिः । इत्थं निश्चयं विधायैका पत्रिका लिखित्वाताभिश्चतसभिस्तस्यां स्वहस्ताक्षरं कृत्वा नभवतिनाम्ने स्वानुचरायदत्वा कथितम् , इदंपत्रं लालचन्द्रनन्दनाय त्वयादेयम्, पुनस्तद्दत्तं पत्रं समादाय शीघ्रमागच्छति शिवयित्वाताभिः स विसृष्टः । गृहीताज्ञः स दूतोवर्मनिगच्छन् तत्पत्रमुन्मुद्य स्वयं वाचयित्वा | पश्चान्महेभ्यगृहं गत्वा तत्पुत्राय तां पत्रिका प्रादात् , भ्रातृचन्द्रेणापि तत्पत्रोचरं संलिख्य तदानीं तस्मै दूताय समर्प्य पश्चात्प्र
For Private And Personlige Only