________________
AcharrsnKadamagarsunaamana
॥ अथचतुर्थःप्रस्तावः॥ चराचरं येन विलोकितं जग-द्विशुद्धविज्ञानवरैकचचुषा । तदेवदेवं प्रणमामिसन्ततं, श्रीपार्श्वनाथंशुमवल्लिबारिदम् ॥अथैतानि प्रधानगदितानि वचनानि निशम्य सुमतिशाली सुमतिचन्द्रोऽरिमईनभूपं चभाषे-नायमेकान्तवादोमन्तव्यः। यतः-शैले शैले न माणिक्य, चन्दनं न वने वने । साधबो नहि सर्वत्र, मौक्तिकं न गजे गजे ॥१॥ राजन् ! बहुरत्ना वसुन्धरा । अतोऽस्मिञ्जगति नानाविधा नरानार्यश्च विद्यन्ते, सर्वे देहिनः समानबुद्धयोनदृश्यन्ते । मुख्यतस्तेषां चत्वारो भेदाः | शास्त्रे प्रदर्शिताः सन्ति । तद्यथा-पूर्व पुरुषभेदानाह-अनुकूलोऽथदचश्व, शठोधृष्टस्तथैवच । चतुर्धा पुरुषोज्ञेयः, कार्याकार्य विचक्षणः॥१॥ तत्राद्यस्यलक्षणमाह-सदाशान्तस्वभावः शोभनाननच्छविमनोहरसौरम्योद्भासिशरीर प्रसाधनमन्तराऽपि स्निग्धकुन्तलो विकसदेहलावण्यो रमणीयतरकरचरणाद्यवयवो वस्त्राभरणादिपदार्थेषु स्वल्पाभिरुचिः प्रायो लघुहस्तपादविन्यासः कुन्दकुमुदवन्धुसमानावभासमानदशनश्रेणिः स्वल्पनिद्रासुखो विगततन्द्रः सूक्ष्माहारोहस्वोपस्थः शुद्धवसनप्रियोगभीरमधुरवाग्विस्तरः शय्यासनादिभोग्यपदार्थेषु परिमलस्वच्छता समीहमानः सङ्गीतशास्त्रेऽधिकमनोवृत्तिः शूराअयायी धृतसंग्रामोत्सवः सततमुदारचेतोवृत्तिः पाणिगृहीतभार्यायामेवपरमं सन्तोष मन्यमानो यो नरो भवति स प्रथमोऽनु कूलोऽभिधीयते । द्वितीयो यथा-उत्तमलक्षणलक्षितः प्रशस्यतरस्वभावः सर्वदा पवित्रचित्रादिषु प्रीतिमान् शुद्धशीलगुणविराजितमानसो भव्यतरशरीरकान्तिर्विज्ञातसमयतारतम्यो रसभावोर्जितसत्काव्यविधाने धृतोत्साहः सत्कार्यकलाकलापेषु
Halkar
For Private And Persone n