________________
Shri Mahavir Jain Aradhana Kendra
**************←→←→→→ ·· -* •**• →→
www.kobatirth.org
सम्पसिंगृहीतुं समागमिष्यति, परं किमपिवस्तु स्वग्रहणाहर्मधः स्थितं न विलोकयिष्यति तदा द्वितीयभूमिं समारोढुमुभाभ्यां हस्ताम्यां निःश्रेणिमालिङ्गिष्यति, तस्मिन्दये त्वयैवं स वाच्यः, भोमित्र ? त्वया यत्प्रतिज्ञाततत्तथैव सम्पूर्ण जातम् । अत स्त्वनिःश्रेणि गृहीत्वा गृहं याहि । इत्थमजितसेनप्रबोधितः स वणिक्तथैव व्यवस्थामकरोत् । अथ सङ्केतिते समये स धूर्चे धनलिप्सुस्तत्रसमागत्य वणिजं कथयामास - करग्राह्यं धनंमेदेहि, वणिजा कथितम् इदं सदनं भवदधीनं कृतमस्ति यद्भवते रोचते तद्गृह्यताम् । विलम्बंमाकुरु । ततः सधूर्त्तइतस्ततोविलोकमानः स्वोचितंवस्तु किमप्यपश्यन्गृहान्तः स्थितं द्वितीयां भूमिं समारोढुं यावन्निःश्रेणिमाश्लिष्यति तावत्सवणिक्तमुवाच - मित्र : धीरोभव या तव प्रतिज्ञाऽभूत्सा परिपूर्णा जाता, श्रावयोर्नियमः कीदृशोऽस्ति ? तत्स्वयं विचारय, तनियमानुसारेणेमां करगृहीतांनिःश्रेणीं लात्वा गृहंग्रेज । इत्थं वणिग्वचनं समाकर्ण्यविलची भूतोनिःश्रेणि परित्यज्य शोकाग्निना दह्यमानो धूर्तों निजगृहं प्रययौ । अथ भूपतिः प्रधानादिसभ्यजनैः सहाजितसेनस्य बुद्धिप्रभावं प्रशंसतिस्म । भृशं तुष्टोनरेन्द्रश्च सर्वेषु प्रधानवर्गेषु मुख्यपदभाजमजितसेनमनीप्सन्तमपि चकार । अहो ? एतादृशीगुणशालिनी कान्ता कस्य नररत्नस्य भवेत् ? प्राक्तनपुण्यशालिन एवस्यान्नाऽन्यस्य, जितसेनकुमारी मुख्यप्रधानपदं समारुह्य राजवल्लभोऽभूत् । इतो महासमृद्धिविभूषितं काञ्चनपुराभिषं काञ्चनमयं पत्तनमस्ति, तत्र प्रौढविक्रमो विश्वविश्वप्रकाशकः सदा सद्रतशाली प्रजापालनतत्परो विद्वज्जनसंमतो विश्वचन्द्राभिधो नृपती राज्यं करोति । तस्मिन्नेवनगरे श्रीमतामग्रणीः सत्यशाली परमधार्मिकः सुतरां दयालुः परोपकारैकबद्धसख्यो रत्नविक्रेता पूर्णचन्द्रनामा श्रेष्ठी वसतिस्म । तस्य पराक्रमशालिनो धर्मवासितचेतसो दयाविभूषितमानसाः सुमतिचन्द्रनवीनचन्द्र विनयचन्द्र
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir