________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रसभं प्रभुतातिशायिताऽजितशान्ते च तवैव विद्यते । स्वपदप्रताऽ क्तसद्भविकानां भविकैककोशदा ॥११॥
शवशर्मनिधी इवोदितौ भवभीभे दधराविवोधुरौ। जयशान्तिगुणाकराविवाजितशान्ती मुदितः स्तुवेऽन्वहम् ।।१२।। सुलभाः सकलाः क्लाः कलाश्चरणं चापि सदर्शनं सविद । विशदं भुवि तस्य यस्य साऽजितशान्त्योः शरणाप्तासम्पदा ।।१३।। अजितो हदे यस्य संवसेत स कथं नैव जयश्रियां पदम । भजतेऽजितशा न्तमत्र यस्त्रि जगद्वन्द्यपदः कथं न सः ॥१४॥ अमृतं दिवि नामतोऽयंता न वचस्तेऽमृतमत्र सार्थकम् । अजितामृततामितं यतस्तव वाकय स्वदतां सदासताम् ॥१५॥ भवतात्मसु चाश्रितेष्वहो बहिरन्तश्च सुशान्तिसम्पदा । प्रथितोचितमेव तद्यतस्तवशान्तेऽन्वयितेदिताभिधा ॥१६॥ अजिते स दिने जयत्यहो बहिरन्तस्तमसां कुतः स्थितिः । कुमुदालिकलोदयः कथं जिनशान्तीन्दुमहरुमा सत्सु न ॥१७॥ जितशत्रुभवो भवेज्जिनोऽजितिशबर्न कथं द्विधात्मना । प्रथमं भुवि शान्तिकृतयोदितशान्तिन कुतः सुशान्तिमान् ।।१८।। अजितः स्वयमीश तत्कथं त्वमः स्वैरचरैवि लुप्यसे । यदि शान्तिमयः प्रभोऽसित त् श्रितगेहेषु कुतोऽपिनिःस्वता ।।१९।। अजितः सकलोऽपि सन्ततं विकलास्तत्तदुपासकाः कथम् । यदि शान्तिरसाकरः प्रभुन कथं शान्तिभृतास्तदाश्रिताः ॥२०॥ चरणं करणं हृदि स्मृतं करण तेऽजित विश्वसंपदे । चरणौ मनसाऽपि भुभावितौ वि शान्तेश्चरणोन्नतिप्रदौ ॥२१॥
For Private And Personal Use Only