________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीअजितशान्तिस्तोत्रम् अजितो जयदो जयाजितप्रभुशान्ते च नताङ्गिशान्तिकृत् । मुदिताऽहमुभावपि स्तुवे भयदौ तौ भवभी भेदोदितौ ॥१॥ भविकप्रकृतेः पुरो महाभविकप्रत्ययतः पदे पदे । सुपदस्थितिर दुता भवेन्दुवि सर्वाजितशान्तिसन्निधेः ।।२।। भवतां भविका भवाटवीविरतिब्रह्मपदेषु चेद्रातः । श्रयताजितशान्तिशासनं शरणं विश्वनृणां तदा मुदा ॥३॥ विजया विजयाश्रयाऽजिताश्रयणेऽन्तपतेरतावभूत । प्रभुशान्तिरपीह शान्तिदो जननीगर्भगतोऽभितो जने ॥४॥ सकलारिजयान्निजप्रसूविजयाजन्यजिवऽपि गर्भगे । जनचक्रिपदद्वयश्रियोः प्रभुशान्तिः प्रभुताभुगद्भुतः ।।५।। तरणीन्दुपुरन्दरादयः परिकर्माण :इवाइवार्भवोऽपि ये । सरसान्तरभक्तिनिर्भरा यदि यो भेजुरिहानुयायिनः ॥६॥ युवयोस्तनुरुपतेजसां लवमात्रायिणाऽपि ते कथम् । रमणीयतया काचनाजितशान्ती विबुधा अपि स्वयम् ॥७॥ द्युमणीरमणीमाश्रयेऽजितशान्ते च भवत्सुशासनम् । भविनामिदभेव सम्पदा पदमत्रास्ति यतस्तु नापरम् ॥८॥ भविकाङ्गमृतोद्भुतो चमातिशयैश्वर्णमहामेक्ष्य वाम् । परिहृत्य कुशासनं जिनाऽजितशान्ती भवदुक्तमाययुः ॥९॥ जितशत्रुसुतोऽजितो जितो भवभीभिर्भविनां समीहितम् । तनुतेऽपि च तान्तिशान्तिकृज्जिनशान्तिः श्रितशान्तिसागरः ॥१०॥
For Private And Personal Use Only