________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
(११) जयवानजितोदेवो, न चकोप्यजितं जयेत् । अजितेन जिताः सर्वे, अजिताय नमो नमः ॥१॥ अजिता झयवंतोन्ये, अतितस्य जयो महान् । अजिते जय लक्ष्मीश्च, सुख वसति सर्वदा ॥ ॥२॥ एतादशोऽजितो देवो, ममाहोहृदयांबुजे । सदा तिष्ठतु भाग्यं चेत् मरालइव मानसे ॥३॥
(१२) पण्डित श्री विनयहंसगणिविरचितः श्रीपदशासनमा सन भावोद्मासन देशनयोदित धर्मम् । आश्रितकामित कल्पसधर्म नौम्यजितंजितरागरुष तम् ।।१।। योजनगामिगिरं तवपीत्वा कर्णपुटैरिव लोहजधातुः । सिद्धरसंस्वसुवर्णतयास्यादिष्ट फलो भविकः सकलोऽपि ॥२॥ त्यक्तरसोऽपि च सत्यरसश्रीः शालिकला सकलो विकलोऽपि । कामितदोऽपि परिग्रहमुक्तः श्रीअजितोविजयी जयदः स्तात्॥३॥ श्रीजित्तशत्रुभवोऽपि कथंस्यास्त्वंजितशत्रुरसौ स्वयमाशु । श्रीविजयाङ्गभवोऽपि सुजातः सर्वसदोभयथा विजयात्मा ॥४॥ इति हर्षविनय गुरुहृद्भक्ति व्यक्तया नुतोऽजितोविजयी । यच्छतु मे जयलक्ष्मी सलीलगुरु धर्म हंसरतिम् ।।५।।
For Private And Personal Use Only