________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छन्दावली
मालिनी "ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणम् । यत्रपादे ननमययगणा भवन्ति अष्टसप्तभिर्विरामश्च सा मालिनीत्यर्थः । श्लोकेऽस्मिन् पश्चदशाक्षर परिमितः पादो बोध्यः ।
अनुष्टुप "लोके षष्टं गुरु ज्ञेयं सर्वत्र लघु पश्चमम्" इति लक्षणम् द्वचतुः पादयोहस्वसप्तमं दीर्घमन्ययो ॥१॥
वसंततिलका उक्ता वसन्ततिलका "तभजा जगौगः इति लक्षणम् यत्र पादे त-भ-जगणा ततो दो गुरू च चेत् सा वसंततिलकेत्यर्थः ।
श्लोकेऽस्मिन् चतुर्दशाक्षरपरिमित: पादा विज्ञेयः ।
पुष्पिताग्रा औपच्छन्दसिकेत्यपरनाम्नी इति लक्षणम् 'अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताग्रा' ।
उपेन्द्रवज्रा "उपेन्द्रवज्रा जतजास्ततौ गौ" इति लक्षणम् यत्र जतजगणास्ततो द्वौ गुरू च स्यातां सोपेन्द्र वज्रोच्यते । कोकेऽस्मिन् एकादशाक्षर परिमितः पादो बोध्यः ।
For Private And Personal Use Only