________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११ )
एवं राजा भवेद्यश्च, शान्ति तुष्टिं लभेत सः ॥ स गरायो ऽस्ति हि मे भक्तो, महाधर्मोऽल्पदोषवान् ॥ १०० ॥ श्रल्पदोषमहाधर्मकृतौ धर्मोऽस्ति भूपतेः ॥ एवं सर्वप्रजाकर्म - सत्यज्ञानविधौ सुखम् ॥ १०१ ॥ शुद्धबुद्ध्या कृते कार्ये, मद्भक्ति: सर्वदेहिनाम् ॥ शुद्धबुद्ध्या न दोषः स्याद्धर्मः स्यात्सर्वकर्मसु ॥ १०२ ॥ साक्षीभूयाऽऽचरेत्कर्म, मत्प्रेम्णाऽसौ न दोषवान् ॥ मद्भक्तिं लभतेऽसौ यः कर्म कुर्या न्मदातये ॥ १०३॥ क्षेमं विन्ते प्रजा यस्याः सत्यं प्रेम नृपोपरि ॥ राज्यार्थं खार्पणं यत्र, दुःखिन्यस्ताः प्रजाः कुतः ॥ १०४॥ राज्यद्रोहेण नाशः स्या, – दुःखं द्रोहेण भूपतेः ॥ राज्यं राजप्रजे ह्यस्ति द्विनाशे राज्यविप्लवः ॥ १०५ ॥ प्रजामतेन राजा स्यादू, गरायो भूपः प्रजाप्रियः ॥ वंशपरम्परातो न, नृपः स्याद्गुणकर्मतः ॥ १०६ ॥ नीतिः प्रतियुगं भिन्ना, न स्याद्राज्यक्षयो यतः ॥ कलौ कल्यनुसारेण, प्रजा राजा क्रिया मतिः ॥ १०७॥ यद्युगे जीवनं येन तं न्यायं च प्रवर्तयेत् ॥ भूत्वा राजप्रजे वेको, राज्यकर्म समाचरेत् ॥ १०८ ॥
-
"
स्वातन्त्र्य मन्तरा राज्य, नाशः स्यात्परतन्त्रता ॥ मच्छिक्षा वर्तते यत्र, धर्मसाम्राज्यकं ततः ॥ १०६ ॥
For Private And Personal Use Only