________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२) संग्रहनयसत्ताया, दृष्ट्या सर्वं जगदि । एकब्रह्मस्वरूपेण, ध्यातारो यान्ति सत्पदम् ॥११०॥ शुद्धव्यवहृतेदृष्ट्या, ब्रह्मध्यानपरायणाः । आत्मशुद्धिं प्रकुर्वन्ति, गृहस्थास्त्यागमार्गिणः ॥१११॥ सर्वनयोक्तसापेक्ष,-दृष्ट्याऽऽत्मरूपचिन्तकाः । सम्यग्दृष्टिप्रभावेन-मिथ्यात्वनाशकारकाः ॥११२॥ असंख्ययोगतो मुक्तिः, सर्वदर्शनधर्मिणाम् । नयसापेक्षबोधेन, भवत्येव यदा तदा ॥ ११३ ॥ सर्वनयोक्तसापेक्ष-ज्ञानं स्यात्सविकल्पकम् । निर्विकल्पं ततो भिन्नं, ज्ञानं शुद्धाऽऽत्मकारकम् ॥११॥ निर्विकल्पोपयोगेन, पूर्णानन्दः प्रकाशते । अनुभवप्रमाणेन, साक्षात्कारो निजाऽऽत्मनः ॥११५॥ अनुभवं विना कोऽपि, याति नैवाऽऽत्मदर्शनम् । आत्मसिद्धौ मया साक्षाद, वेद्यतेऽनुभवः कलौ ॥११६॥ सर्वनयोक्ततत्त्वानां,-बोधं विना जगजनाः । परस्परं च युद्ध्यन्ति, क्लिश्यन्ति धर्मभेदतः ॥११७॥ अात्मज्ञानविकल्पो य-सतु श्रुतानुसारजः। निर्विकल्पं स्वभावेन, रागद्वेषविनिर्गतम् ॥११८ ॥ नयादिसविकल्पेभ्यो,-भिन्नं द्वैतविनिर्गतम् । अद्वैतं निर्विकल्पं तु, ज्ञानं शुद्धाऽऽत्मवेदकम् ॥११॥
For Private And Personal Use Only