________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११ )
॥ १०२ ॥
कर्मरूपं न जानन्तो, मुह्यन्ति घोरसंकटे । आत्मादितत्त्ववेत्तारो, मुह्यन्ति नैव संकटे ॥ १०० ॥ श्रात्मज्ञानि मनुष्याणां - शुद्धोपयोगलक्ष्यतः । स्वाधिकारेण कार्याणां - प्रवृत्तिर्जायते खलु ॥१०१॥ प्रवृत्तौ वा निवृत्तौ वा, स्वतन्त्रा ज्ञानिनः सदा । यद्येोग्यं तत्प्रकुर्वन्ति, सर्वकार्यविवेकिनः शुद्धाSSत्मराज्यलाभार्थ, - माSSत्मशुद्धोपयोगिनः । भवन्ति बाह्यराज्येषु, निर्लेपाः कर्मयोगिनः ॥ १०३॥ सर्वसंगेषु निःसंगाः, क्रियासु चाक्रियाः स्वयम् । योगिनो नैव योगेषु, भोगेषु न च भोगिनः ॥ १०४ ॥ मृतास्ते मोहभावेन, जीवन्तो ज्ञानभावतः । सुप्ता विकल्पसंकल्प, - त्यागेनाध्याऽऽत्मवेदिनः ॥ १०५ ॥ मोहस्वप्नो न यस्याऽस्ति, ज्ञानदृष्ट्यां भवोत्थितः । स ज्ञानी दिवसे रात्रौ, जागर्ति निद्रितोऽपि सन् ॥१०६॥ रागद्वेषस्वरूपं तद्, -द्वैतं यस्माद्विनिर्गतम् । स विश्वेशो महादेवो, विभुरस्ति सुखालयः ॥ १०७॥ श्रात्मैव परमेशोऽस्ति संग्रहनयसत्तया । एक आत्मा स संध्येयः, शुद्धात्मव्यक्तिहेतवे ॥१०८॥ संग्रहनयसत्ताया, - अपेक्षातो विवेकिनः । आत्मसत्तां हृदि ध्यात्वा भवन्ति परमेश्वराः ॥ १०६ ॥
For Private And Personal Use Only