________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वसंगेषु निःसंगः, साक्षिरूपेण जीवति । निरासक्तः पदार्थेषु, ब्रह्मदृष्टया प्रवर्तकः ॥३०॥ स्वतन्त्रः सर्वभावेषु, मोहेन नैव लिप्यते । ग्राहत्याज्यमतिं त्यक्त्वा, वर्तते स जगत्रये ॥३१॥ पात्मज्ञानी महादेवो, महाब्रह्मा स उच्यते । मृतः स बाह्यभावेषु, ब्रह्मण्येव प्रजीवति ॥३२॥ कुर्वन्हि सर्वकर्माणि, ब्रह्मजीवनजीवकः। कर्मणा बध्यते नैव, साक्षिवद्वर्तको भुवि ॥ ३३॥ आत्मदृष्टि र्यदा शुद्धा, प्रादुर्भूता निजाऽऽत्मनि । तदा स्वयं प्रभुं ज्ञात्वा, ज्ञानी भवति निर्भयः ॥३४॥ अज्ञानी ज्ञानिनं नैव, वेत्ति नैव निजं तथा । अज्ञानसदृशं दुःखं, नाऽस्ति किञ्चिजगत्रये ॥३५॥ भात्मज्ञानसमं शर्म, नाऽस्ति किञ्चिज्जगत्रये । अध्यात्मज्ञानिनं वेत्ति, ज्ञानी निर्मोहभावतः ॥३६॥ उन्मत्त इव मूढे हि, ब्रह्मज्ञानी विलोक्यते । ज्ञानाऽऽत्मा दृश्यते नैव, मूढैस्तत्र न संशयः ॥ ३७॥ अध्यात्मज्ञानिसङ्गेन, ब्रह्मज्ञानं प्रकाशते । नान्यथाऽध्यात्मशास्त्रेण, यथा दीपेन दीपकः ॥३८॥ प्रात्मानन्देन जीव !! त्वं, मा जीव!! दुःखजीवनात् । मा कुरुष्व सुखाशां त्वं, जडेषु क्षणिकेषु हि ॥३६ ॥
For Private And Personal Use Only