________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिक्षणं चिदाऽऽत्मान, मात्मशुद्धोपयोगतः । हृदिधृत्वा हि संस्मार्य,प्रास्माऽऽत्मना विशुध्यति ॥२०॥ सोऽहं सोऽहं परब्रह्म, निजाऽऽत्मैव तनुस्थितः । विज्ञानानन्दरूपोऽस्मि, हंसस्तत्त्वमसि ध्रुवम् ॥२१॥ आत्माऽऽत्मानं विजानाति, सर्वविश्वं प्रतिक्षणम् । खमेव विश्वरूपोऽसि, स्वयं स्वपरपर्यवैः ॥२२॥ मोक्षरूपस्त्वमेवाऽऽत्मा, मुक्तिनिजाऽऽत्मनि ध्रुवम् । आत्मानमन्तरा किञ्चि, नास्ति सुखप्रदं भुवि ॥२३॥ वैषयिकपदार्थेषु, सुखं दुःखं न वस्तुतः । तत्र मिथ्यात्वबोधेन, मोही भवति मानवः ॥ २४ ॥ सुखं दुःखं जडेष्वेव, मिथ्याबुद्ध्या प्रकल्प्यते । आत्मन्येव सुखं सत्यं, लायते ब्रह्मबोधतः ॥ २५ ॥ आत्मज्ञानं विना शान्ति-ऑयेत न जगत्त्रये। अध्यात्मशान्तिलाभेन, प्राप्तव्यं नावशिष्यते ॥२६॥ अध्यात्मज्ञानमात्रेण, सत्याऽऽत्मा हृदि दृश्यते । आत्मदर्शनलाभेन, मुक्तिर्भवति निश्चयः ॥२७॥ वैषयिकपदार्थे र्हि, स्वाऽऽत्मविन्नैव बध्यते । ज्ञानिनो बन्धनं कर्तु, शक्तः कोपि न जायते॥२८॥ आत्मज्ञानेन निबन्ध, आत्मा प्रारब्धकर्मसु । भोगेरोगेच साक्ष्याऽऽत्मा,सक्रियोऽपि हि निष्क्रियः॥२६॥
For Private And Personal Use Only