________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घर धर्मगुरो राज्ञां तरीतुं तीर्थ एव सः। भवपारं ततो यातु सारं तच्च सुखाकरम् . ॥५१६ ॥ साधुव्रताभिलाषी यो यश्च सद्गुरुकिंकरः । सद्गुणानां च यो धाम स सत्यश्रावको मतः ॥ ५१७ ।। पंचमहाव्रताचारधर्मध्यानेषु वर्तते । भवभीतो जिनाज्ञासु वर्तते यो दिवानिशम् ॥१८॥ बाह्योपाधिविषं त्यक्त्वा समाधि प्राप्य जन्मजाम् ।। स्वरूपं बोधयामास वन्दे तं गुरुमीश्वरम् ॥ ५१६ ॥ श्रीपार्श्वमणियोगेन लोहो याति सुवर्णताम् ॥ प्रबोधो यस्य बोधेन बुद्धस्तं श्रीगुरुं भजे ॥५२० ॥ एवं गुरुं हि सेवस्व तीर्थ जगत्सुखप्रदम् ॥ यस्य वाणी च गम्भीरा ध्यानी धीरोऽथ योगवान् ॥५२१॥ धर्मगुरुमैमाधारः शुद्धो हि तदुपग्रहः । लभ्यते गुरुसेवा चेद्भवपापं लयं व्रजेत् ॥ ५२२ ।। उपदिशेद्गुरु र्यच तल्लवं प्राप्य यत्नतः॥ वर्णिता गुरुभक्ति र्हि गुरुभक्ति हि मे शुभा ॥५२३ ॥ प्रादुर्भवन्तु सत्सन्तो वहन्तु ज्ञाननिर्झराः ॥ श्रीशंखेश्वरपार्श्वस्तु कुरुतां मङ्गलं सदा ॥५२४ ॥ पद्मावतीसहायेन पूर्ण-ग्रन्थः कृतो मया ॥ पंचशताधिकः श्लोकः श्री परमात्मदर्शनम् ॥५२५ ॥ लोदरायामिमं ग्रन्थं प्रारेभे स्फुर्तितो मतेः ॥ म्हेसाणायां समाप्तोऽभू-दात्मा शुद्धोऽभवत्ततः ॥ ५२६ ॥ श्रीधर्मचन्द्रःसुरतस्य वासी तस्यात्मजो जीवनलालनामा ।। तस्मै च संघार्थमहं चकार तरिष्यति ज्ञातजनो
भवाब्धिम् ।। ५२७॥
For Private And Personal Use Only