________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वक्ति पश्यति यो योगी सोऽहमात्मा स कथ्यते । पराऽऽत्मजीवयो मेंदो भवखेदश्च नश्यति ॥ ५०४ ॥ धन्यं मन्ये स्वजन्माऽहं किञ्चिद्रूपमभास्यत। अकलगति रात्मस्त्वं स्वस्य सेवां स्वयं कुरु । ॥५०५॥ दानिनिजगुणं देहि ज्ञानिन्देहि गुणज्ञताम् । तव सौख्य मवाधञ्च सुखं साधय साधनात् ॥ ५०६ ॥ धर्मद्वयं जिनप्रोक्तं हेतुः शाश्वतशर्मणाम् । धर्म ज्ञात्वा यथाशक्ति स्वीकारं कुरु तस्य च ॥५०७ ।। त्वं धर्ताऽस्यात्मधर्माणां निश्चयात्समतोदधिः। तृष्णायाः किंकरो नाऽस्मि नाऽस्मि पुद्गलवास्यहम् ॥५०८।। न निन्देद्धर्मिणं कश्चि-दतिनिन्दाफलं कटु । तपोजपादिमान्श्राद्धो भ्रमति निन्दनाद्भवे ॥५०६ ॥ अन्त मर्म न जानाति धर्म:कस्तिलकादितः। शुद्धरूपं धराऽवश्यं धन्यं जन्माजस्ति तस्य तु । ॥ ५१० ॥ श्रावकाख्यः कुले जातः कथं मुक्ति भवेत्ततः। स्यात्फलं यदि नाम्नैव धनेशाख्यो न याचताम् ॥११॥ साधूनां कुरुते शिक्षा न स्वयं श्रावकवती गुरुशत्रुः स चाण्डालः शृगालजन्म तद्वरम् ॥ ५१२ ।। विषमः कलिकालोऽयं कश्चिद्धि श्रावको गुणी निन्दको मुनिविद्रोही तस्य बोधः कथं भवेत् ॥ ५१३ ॥ पण्डितः श्रावकः कश्चिन भवेद्गुरुतोऽधिकः । मेरुसषपवझेदो ज्योतिरन्तरथोतमः ॥ ५१४ ।। उत्तराध्ययनं साक्षि, गुणार्थ कुरु तच्छ्रमम् दृष्टिरागेऽस्ति को धर्मः परं द्वेषेण कर्म हि ॥५१५ ॥
For Private And Personal Use Only