________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स ईश्वरःकर्मविवर्जितोऽस्ति, स कारकःस्याच कथं परेषाम् । कर्ता परेषां स तु बाह्य आत्मा, सम्यक्प्रमाणःपरमार्थ एषः श्रात्मा तु मिथ्यापरिणामतःस्याषटकारकाणां व्यवहारभाजी। स शुद्धतत्तत्परिणामकर्ता,
शुद्धत्वतो वै परिणामवान्स्यात् ॥८६॥ श्रात्मानं मन्यते कश्चित् सर्वत्र व्यापकं प्रभुम् । एकमात्मानमेवाऽसौ मुक्तं बद्धं च मन्यते ॥१०॥
एते परात्मप्रतिबिम्बभाजो, जीवा अनेके ननु ये च सन्ति । जीवत्वनाशे सति सैव आत्मा, भवत्यशेषः परमात्मदेवः नैवंविधं वर्तत प्रात्मतत्त्वं, सर्वेषु यत्तस्य भवेद्विभुत्वम् । एकं भवेच्चेजगदात्मतत्त्वं, दुःखं सुखं वा न तदा घटेत ॥१२॥ एकस्य बन्धेन समग्रबन्ध, श्चैकस्य मोक्षण समग्रमोक्षः।
For Private And Personal Use Only