________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३३)
विद्ध्यध्यात्म महावीर-मुपयोगं हि जीवकम् । ज्ञानेन मंगलं पूर्णा- नन्दरूपं प्रकाशते ॥३१७॥ अन्तिम स्तीर्थकृद्वीरो, वीर श्रात्माऽऽत्मभावतः । जानाति द्वयरीत्या यः सच ज्ञानी महान्भवेत् ॥३१८॥ यशोदास्ति सती पत्नी, सास्वयं शुद्धचेतना। प्रज्ञा सुदर्शनां विद्धि, भाव आध्यात्मिकोऽस्त्ययम्॥३१९।। अन्तर्वृत्तिं सुतां विद्धि, सैवाऽस्ति प्रियदर्शना। सद्बुद्धि स्त्रिशला सत्य,-विवेको नन्दिवर्धनः ॥३२०॥ देहः क्षत्रियकुण्डोऽयं, सिद्धार्थोऽनुभवः पुनः आर्यक्षेत्रं वदेशोऽस्ति, पूर्णानन्दो यतोऽनिशम्॥३२१॥ कुटुम्बगुणपर्याया, प्रात्मा वीरो जिनेश्वरः। वेत्ति यो द्रव्यभावाभ्या, मसावानन्दमश्नुते ॥३२२॥ अध्यात्मरूपकेणैव, वेत्त्यसौ क्षेमयोगवान् । श्रात्मनि घटते सर्व, मिथ्या गर्वं न वा कुरु ॥३२३॥ आत्मानं बोधयेदात्मा, क्लेशं नाशयते स्वयम् । पश्याऽऽत्मन्यखिलं वस्तु, ज्ञात्वा भ्रान्तिमपाकुरु ॥३२४॥ विद्ध्यनाद्यन्तकालं च, स्वात्मवीरं च सत्तया । व्यक्तःपर्यायतःसादि-रनादिःसत्तया खलु ॥३२५॥ जीवकबोधसच्छिक्षा, ज्ञानादीक्षा प्रकाशते ।। सर्वविश्वेषु शान्तिः स्यात्तुष्टिः पुष्टिश्च शोभते ॥३२६॥
For Private And Personal Use Only