________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३३ )
वीर तेजोमय ब्रह्म, धन्योऽसि परमेश्वर ॥ बोधयामास मां देव, तेन भ्रान्ति र्गता मम ॥३०७॥
सर्वं सत्यं भवेद्राज्यं, सर्वज्ञोऽसि महाप्रभुः ॥ त्वमेवाऽसि ममाधारः, पूर्णं प्रेम मम त्वयि ॥ ३०८ ॥ त्वच्छिक्षा नयसापेक्षा, श्वाऽज्ञानां निरपेक्षकाः ॥ त्वच्छिक्षा मनुगन्ताऽस्मि, कृत्वा कर्माधिकारतः ॥ ३०६ ॥ सतया चैक आत्मास्ति, ह्यनन्ता व्यक्तिभेदतः ॥ श्रात्मतत्त्वाखिला दृष्टि, स्तत्सृष्टिरह माभवम् ॥ ३१०॥ स्याद्वादे वखिला धर्माः, संमान्तीति मया मतम् ॥ अनादिजैनधर्मोऽस्ति, नादि नन्तोऽस्ति तस्य तु ॥ ३११॥ तव सेवा धृता सत्या, जैनधर्मप्रकाशक ॥ उत्तारय भवाम्भोधि, मामुद्धारय हे विभो ॥ ३१२ ॥ स्वार्पणं ते कृतं सर्वं मिथ्याधीश्च मदो गतः ॥ प्राता तव कृपा सत्या, मोहो दुःखकरो न मे ॥३१३॥ जैनधर्मस्तु विश्वेषु, सर्वजीवेषु वर्तते ॥
जयकारो भवन्नाम्ना, शिवं शान्तिः प्रकाशताम् ॥३१४॥ शुद्ध ब्रह्म जिनो वीर, यस्य शिक्षोत्तमोत्तमा । जीवो जीवकराजोऽस्ति, स्वान्तरात्माख्य एव सः॥३१५॥ शुद्धजीवो हि सम्यक्त्वी, स्वात्मक्षेत्रं तु भारतः । आत्मा जिनोऽस्ति जैनश्च एतज्ज्ञानान्न दीनता ॥ ३९६ ॥
For Private And Personal Use Only