________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३०) अनायनन्तकालाद्धि, संसारः प्रकृते वंशः ॥ स्वभावं प्रकृतिर्धत्ते, कर्म न त्यजति स्वताम् ॥२८७॥ साधं प्रकृतिशक्त्या तु, स्यादात्मा जगतः प्रभुः ॥ ज्ञानी चोन्नतिहेत्वर्थ, प्रकृतिमवलम्बते ॥२८८ ॥ गार्हस्थ्ये कर्मसाहाय्यं, त्यागिनामपि तत्तथा ॥ एवं सापेक्षया वेत्ति, क्षेमी स स्वोपयोगतः ॥२८९॥ सर्वजीवा न कर्मान्ता, भक्ता न सर्वदेहिनः ॥ नश्यन्ति धर्मभेदा न, भेदः खेदोऽपि कर्मणा ॥२६॥ जनान् शिक्षय राज्येषु, शिक्षयित्वा सुधारय । कुरु सामादिको नीति, स्याद्धर्मश्च जयस्ततः ॥२९१॥ वर्धय जैनसाम्राज्यं, जैनेषु प्रीति माचर ॥ जैनार्थं प्रेमतो धाव, पापिशत्रून्निवारय ॥ २६२ ॥ राज्यादे र्व्यवहारोऽयं, तावत्कर्तव्यमाचर ॥ शुद्धिः स्यादात्मनस्तेन, मुच्यते मोहमन्तरा ॥२६॥ योग्यमव धर्मोऽस्ति, कर्मोत्सर्गापवादतः ॥ यत्काले यच्च योग्यं स्या-, भाति धर्मश्च तद्विधौ ॥२६४॥ कर्म ज्ञात्वा प्रकारैश्च , कृतौ धर्मस्तथासुखम् ॥ एवं ज्ञात्वा श्यये भूप, शक्त्या साम्राज्य माचर ॥२६५॥ राजा सर्वप्रजा संघो, वृद्धिस्तेषामहर्निशम् ॥ जैना वंशक्रमेण स्यु-, रेवं राज्यं हितं कुरु ॥२९६॥
For Private And Personal Use Only