________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८) कर्म ज्ञात्वा भवाऽकर्मा, स्वात्मशर्म तु निष्क्रियम् ॥ कर्मणः श्रद्धया साम्यं, तथा ज्ञानादयो गुणाः ॥२६७॥ कर्मात्मनोश्च संयोगा-, त्सुखं दुःखं च जायते ॥ भावकर्म ब्रजेञ्चित्ता, दात्मा वेद्य स्तदंशतः ॥२६८ ॥ द्रव्यादिकर्मनाशेन, मुक्त पात्मा स्वयं भवेत् । कर्मतो मोचनं मुक्ति-, रुपशमादिभावतः ॥२६॥ उपशमन मोहादेः, क्षयोपशम तस्तथा। चोयिणास्मशुद्धिःस्या, चिदानन्दःप्रकाशते॥२७॥ एवंविदश्च मद्भक्ता, योगं क्षेमं प्रयान्ति च । श्रात्मा हि परमात्मा स्या-, प्रत्यक्षः स मया समः ॥२७१॥ धीः पृथक् सर्वजीवानां, कर्मतः कुरु शुद्धताम् । कमतों भिन्नजन्मानि, तेन साम्यं न देहिनाम्॥२७२॥ स्याज्ज्ञानावरणीयादि,-नाशः सेवादियोगतः आत्मन्येव मनो रक्ष्यं, धीरः स्यात्तत्सुबोधतः ॥२७३॥ समुद्धरात्मनात्मानं, भवपारं ततो वज। कुर्वात्मानं स्वयं द्योत्य-,मात्मानं स्वं प्रकाशय ॥२७४॥ यतस्व स्वाश्रयी भूत्वा, स्वात्मविश्वासमाचर। वसतीशः स्वयं देहे, स्वात्मानन्दविलासकः ॥२७५॥ अनन्ता धीमनोभेदा-, स्तेषामन्तो न विद्यते । प्रतिजीवं तयोर्भेदो, विद्धयात्मानं ततः पृथक् ॥२७६॥
For Private And Personal Use Only